________________
१३६
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० यो योगिनं 'पुष्पकरण्डिनीस्थं दुश्चेष्टितै पनबद्धकक्षम् ।
पदावननं विदधेऽन्तिमोऽर्हन्निवा स्थिकग्रामिकशूलपाणिम् ॥११६॥ (१) उज्जयिनीस्थाष्णुः(स्नुः) । (२) कोऽपि सिद्धचेटकपेटको योगी । साधूनां दन्तदर्शनेन तथोपाश्रये उन्दुर-बिडाल-वृश्चिक-भुजगादिदर्शनेन चाचार्यमपि भापनोद्यतः प्रभुणा जैनमन्त्रानुभावतो बद्ध्वा प्रासादशिखरे सङ्घट्यमानास्फाल्यमानाङ्गः पूत्कुता गगनमार्गेना(णा)लये आनीतः । (३) प्रभुं प्रणेमे । (४) महावीरः । (५) अस्थिकग्रामवासिशूल
पाणियक्षम् ॥११६॥ हील. यो यो० । यथा वीरजिनेन शूलपाणिः शिक्षितस्तथा सूरिरुज्जयिन्यां भयोत्पादने क्षमं योगिनं नतं
विदधे ॥११७|| हीसुं० 'यस्योपदेशानृ पमन्त्रिपृथ्वीधरश्चतुभिः सहितामशीतिम् ।
ज्ञातीरिवोद्धर्तुमिदंमिता: स्वा व्यधापयत्तीर्थकृतां विहारान् ॥११७॥ (१) श्रीधर्मघोषसूररुपदेशात् । (२) पेथडदेनामा मण्डपाचलपातिसाहिप्रधानः । (३) चतुरशीतिर्जिनप्रासादकारितवान् रैवते च षट्पञ्चा(श )त्स्वर्णधटीभिरिन्द्रमालां परिहृतवांश्च
॥११७॥ हील० यस्योपदेशान्मालवदेशे मण्डपाचलपातिसाहेमन्त्री पेथडदे ८४ ज्ञातीरुद्धर्तुं ८४ जिनप्रासादानकरोत्
॥११८ हीसुं० 'दंशादहेाहितकाष्ठभारविषौषधीसज्जतनुर्निशान्ते ।
महात्मवद्यो विकृतीविहाय वृत्तिं व्यधादेव युगन्धरीभिः ॥११८॥ (१) एकदा नक्तं सर्पदंशाद्विषेण घूर्णं तं गुरुं दृष्ट्वा किंकर्त्तव्यमूढं सङ्गं विज्ञाय गुरुः सङ्गं प्रति प्राह-प्रातर्या काष्ठभारिका समेति तस्या विषापहारिणीमौषधीं गृहीत्वा वल्ली घृष्ट्वा महुंके देया सज्जो भविष्यामीति श्रुत्वा सङ्घन तथाकृते सज्जीभूतः प्रभुस्तदादिषड्विकृतीस्तत्याज
॥११८॥ हील०- दंशा० । अहेर्दशादानायितात्काष्ठभारात् विषस्यावहारिण्यौषध्या सज्जतनुर्निशान्ते प्रातः षट्(ड्)
विकृतीस्त्यक्त्वा । यथा सज्जनः परद्रोहादीन् त्यजति तद्वद्यः युगंधर्यवाहारमकरोत् ॥११९॥ हीसुं० यस्मादिदीपे चरणस्य 'लक्ष्मीर्घोत्से( त्स्ने )व 'चान्द्री शरदोऽनुषङ्गात् ।
सोमप्रभाख्यो जनदृक्चकोरीसोमप्रभः सूरिरभूत्पदेऽस्य ॥११९॥ (१) चारित्रश्रीः । (२) राशिसम्बन्धिनी । (३) मेघात्ययस्य सङ्गात् ॥११९॥
1. इति श्रीधर्मघोषसूरिः ४६. हील० । 2. इति श्रीसोमप्रभसूरिः ४७. हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org