________________
१३४
'श्री हीरसुन्दर' महाकाव्यम्
(१) द्वात्रिंशत्सङ्ख्याकैदिगम्बरैर्वादिभिः । (२) जेतुमशक्यः । (३) वज्रमणिस्वि । ( ४ ) आघाटनामनगरस्वामिना । लोके 'आहडनगर मिति प्रसिद्धिः । ( ५ ) हीरलाजगच्चन्द्रसूरिः । ( ६ ) कथितः ॥ १०८ ॥
हील० द्वात्रिंशद्दिगम्बराचार्यैः समं वादं विदधन् यः हीरावज्जातः । स आहडनगरराज्ञा 'हीरलाजगच्चन्द्र' इति नाम्ना कथितः ॥ १०९ ॥
हीसुं० ९आचाम्लकैर्द्वादशहायनान्ते तपेत्यवापद्विरुदं मुनीन्दुः ।
हील०
'महाहवैर्वै'रिविनिर्जयान्ते भे( भ ) व भूमेर्जितकाशिसंज्ञाम् ॥१०९॥
( १ ) द्वादशसंवत्सरं यावन्निरतं[ न्तरं ] कृतैराचाम्लैः कृत्वा । ( २ ) भूमीपालात्तपा इति बिरुदं प्रभुः प्राप्तवान् । ( ३ ) महद्भिः सङ्ग्रामैः कृत्वा । ( ४ ) रिपूणां विजयावसाने । (५) जिताहव इति संज्ञां लभते । " जिताहवो जितकाशी "ति हैम्याम् ॥१०९ ॥
आचा० । यः आचाम्लकैः कृत्वा द्वादशवर्षप्रान्ते 'तपा' बिरुदमाप । यथा समस्तारिजयाद्राजा 'जिताहव' संज्ञां लभते ॥ ११० ॥
हीसुं० 'अस्मात्ततः प्रादुरभूत्तपाख्या नेत्रादि वात्रेर्द्विजराजलेखा ।
अदीपि यस्माच्च मुमुक्षुलक्ष्म्या वसन्तमासादिव भानुभासा ॥ ११०॥
(१) जगच्चन्द्रसूरे: । ( २ ) तद्दिवसादारभ्य । ( ३ ) अत्रिनामतापसलोचनात् । ( ४ ) चन्द्रमण्डली । (५) साधुश्रियाः । (६) सूर्यया ॥११०॥
हील० अस्माज्जगच्चन्द्रसूरेः सकाशाद्बृहद्गच्छस्य 'तपागच्छ' इति षष्ठं नाम जातम् । यथात्रेर्ने त्राच्चन्द्ररेखा जाता । पुनर्यस्माद्यतिलक्ष्म्या अधिकं दीप्यते स्म । यथा वसन्तमासाद्भास्करस्य प्रभया दीप्यते
॥१११॥
हीसुं० 'देवेन्द्रकर्णाभरणीभवद्भिर्यशोभिरुद्भासितविष्टपेन ।
'देवेन्द्रदेवेन बभेऽस्य पट्टे विष्णोर्यथा वक्षसि 'कौस्तुभेन ॥ १११ ॥
(१) समस्तसुरपतिकर्णपूरतां प्राप्नुवद्भिः । गीतगोष्ठीषु तुंबुरुप्रमुखगान्धर्वगणगीयमानयद्गुणश्रवणैकतानाः सुरेन्द्राः संजायन्ते । ( २ ) शोभितभुवनेन । (३) देवेन्द्रनामसूरीन्द्रेण । "पादा भट्टारको देवः प्रयोज्याः पूज्यनामत" इति हैम्याम् । ( ४ ) रत्नविशेषेण ॥ १११ ॥ हील० देवेन्द्राणां कर्णयोराभरणीभवद्भिः कर्णपूरायमाणैर्यशोभिद्येतितविश्वेन देवेन्द्रसूरिणा अस्य पट्टे शोभितम् । यथा कृष्णहृदये कौस्तुभरत्नेनोद्भास्यते । "पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः" इति हैम्याम्
॥ ११२ ॥
1. इति श्रीजगच्चन्द्रसूरि : ४४ । इति बृहद्गच्छस्य तपगच्छ इति षष्ठं नाम सञ्जातम् ६. हील० । 2. श्रीदेवेन्द्रसूरि : ४५. । हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org