SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३३ चतुर्थः सर्गः ॥ हीसुं० निर्जीयते स्म क्वचनापि नायं कृतोपसग्गैरपि देववर्गः । इतीव नाम्ना 'भुवि "विश्रुतेन जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥१०४॥ (१) न जितः । (२) विविधमनोवचनकायक्षोभकरणप्रकारैः । (३) भूमौ । ( ४ ) विख्यातेन ॥१०४॥ हील० निर्जी० । कदाप्ययं उपसर्गं कुर्वद्भिरसुरसुरसमूहैर्न निर्जीयते स्म । इति कारणात् पृथ्वीविख्यातेन नाम्नाऽजितदेवसूरिरतत्पट्टे समजनि ॥१०५।। हीसुं० 'जगत्पुनानः 'सुमन:स्रवन्तीरयो जटाजूटमिश्वेन्दुमू( मौ)लेः । अमुष्य पढें "विजयादिसिंहोऽध्यासांबभूवाथ तपस्विसिंहः ॥१०५॥2 (१) विश्वं पवित्रीकुर्वाणः । (२) गङ्गाप्रवाहः । (३) ईश्वरस्य कपईमिव । “कपईस्तु जटाजूट'' इति हैम्याम् । (४) विजयसिंहसूरिः । (५) आश्रयति स्म । (६) श्रमणकेसरी ॥१०५॥ हील० जग० । अस्य पट्ट विजयसिंहसूरिः आश्रयति स्म । यथा सुरसिन्धुप्रवाहो रुद्रजटां श्रयते । स च किंकुर्वाणः ?। जगद्विश्वं पवित्रीकुर्वाणः ॥१०६।। हीसुं० सोमप्रभः श्रीमणिरत्नसूरी १अमुष्य पढें नयतः स्म लक्ष्मीम् । 'इक्ष्वाकुवंशं भरतश्च बाहुबलिस्तनुजाविव नाभिसूनोः ॥१०६॥ (१) अजितदेवसूरेः (विजयसिंहसूरेः) । (२) ऋषभदेवस्य बाल्यावस्थायामिक्षुयष्टेर भिलाषादिन्द्रेण स्थापित ईक्ष्वाकुवंशः । (३) ऋषभदेवपुत्रौ ॥१०६॥ हील० सोम० । तत्पढें द्वौ अभूताम् । यथा ऋषभनाथस्य द्वौ सुतावभूताम् ॥१०७।। हीसुं० श्रीमज्जगच्चन्द्र 'इदंपदश्रीललामलीलायितमा'ततान । येनोज्झि शैथिल्यपथस्त डा गो घनाविलो मानसवासिनेव ॥१०७॥ (१) अनयोः सोमप्रभमणिरत्नयोराचार्ययोः पट्टस्य लक्ष्म्यास्तिलकलीलाचरितम् । (२) कुरुते स्म (३) त्यक्तः । (४) शिथिलीभूतानां मुनीनां मार्गः । (५) सरः (६) मेघजलैः पङ्किलीकृतः । (७) हंसेन ॥१०७॥ हील० श्रीमज्ज० । श्रीजगच्चन्द्रसूरिः अस्य पदस्य लक्ष्म्यास्तिलकस्य लीलावदाचरितं कुरुते स्म । येन मुत्कलता त्यक्ता । यद्वद्धंसेन कलुषीभूतस्तटाक उज्झ्यते ।।*१०८॥ हीसुं० 'द्वात्रिंशदाशावसनैर भेद्यो वादं सृजन्ही रकवद्यदासीत् । ४आघाटभूपेन स' हीरलाद्यो नाम्ना जगच्चन्द्र इदं न्यगादि ॥१०८॥ 1. इति श्रीअजितदेवसूरि: ४१. हील० । 2. इति श्रीविजयसिंहसरिः ४२. हील० । 3. इति सोमप्रभमणिरत्नसूरि ४३. हील० । 4. ०टाको हीमु० । 5. इति हीमु० । 6. अत्र हीरलाजगच्चन्द्रसूरिरिति नामस्थापना हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy