SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ 'श्री हीरसुन्दर' महाकाव्यम् हील० कुर्वन्नि० । तत्पट्टे देवसूरिर्जातः । किंभूतो देवसूरि: ? । गवि स्वर्गे पृथिव्यां च निवासं कुर्वन् गौरवेन (ण) श्रीः शोभा यस्य । पुनर्वाचामीशो देवैः पण्डितैर्वा सेव्यः । अत एव देवाचार्यः बृहस्पतिः ॥१००॥ हीसुं० 'दोषोदयोदीततमःप्रपञ्चव्यापादनव्यापृतिदीक्षितेन । श्रीसर्वदेवेन पदं तदीयमदीपि दीपेन यथा 'निकेतम् ॥१००॥ ( १ ) अपगुणानां निशानां वा संभवेनाविर्भूतानि अज्ञानानि तिमिराणि च तेषां विस्तारविनाशनव्यापारे गृहीतव्रतेन । (२) गृहम् ॥१००॥ हील० दोषाणां दोषाया वा उदयेन प्रकटीभूतं अज्ञानमन्धकारश्च तस्य ध्वंसकरणे सज्जेन । गृहीतव्रतेनेत्यर्थः । तादृशेन सर्वदेवेन तस्य पट्टमदीपि । यथा दीपेन गृहं दीप्यते ॥ १०१ ॥ हीसुं० श्रीमद्यशोभद्गणावनीन्द्रः श्रीनेमिचन्द्रव्रतिपुङ्गवश्च । 'तत्पट्टमाकन्दमुभौ भजेते शुकोऽन्यपुष्टश्च यथा विहंगौ ॥१०१॥२ ( १ ) सर्वदेवसूरिपट्टसहकारतरुम् । ( २ ) कीरकोकिलौ । ( ३ ) पक्षिणौ ॥१०१॥ हील ० श्रीम॰ । तत्पट्टसहकारं उभौ संश्रयेते । यथा कीरकोकिलौ सहकारं संश्रये ॥१०२॥ हीसुं० 'तयोष्प ( : प ) दे श्रीमुनिचन्द्रसूरिरभूत्ततो निर्मितनैकशास्त्र: । शास्त्रे न कुत्रापि तदीयबुद्धिश्च स्खाल वीङ्खेव 'समीरणस्य ॥१०२॥ हील० (१) यशोभद्र - नेमिचन्द्रयोः । (२) विरचितविविधग्रन्थः । ( ३ ) स्खलिता । ( ४ ) पवनस्य गतिः ॥ १०२ ॥ हील० तयोः पट्टे श्रीमुनिचन्द्रसूरिरभूत् । तस्य धीः कुत्रापि शास्त्रे न स्खलति स्म । यथा वायोर्वेग (गो) गतिः क्वापि वनगहनादौ न स्खलति ॥ १०३॥ हीसुं० 'भूपीठखण्डानिव 'चक्रवर्त्ती यतीभवन्षविकृती हौ यः । कदापि काये न दधन्ममत्वं पपौ पुनर्यः सकृदारनालम् ॥१०३॥ ( १ ) गङ्गासिन्धुनदीभ्यां विभक्तान् वैताढ्यद्विभागीकृतोत्तरार्द्धदक्षिणार्द्ध भरतस्य षट्खण्डान् । (२) द्वात्रिंशत्सहस्त्र देशाधिपतिश्चक्रीत्युच्यते । ( ३ ) साध्वाचारं गृह्णन् । ( ४ ) त्यजति स्म । (५) मम इत्यस्य भावो ममत्वम् । (६) एकवारम् । (७) काञ्जिकम् ॥१०३॥ भूपी० । यथा यतीभवन् चक्री षट्खण्डान् त्यजति तथा यः सूरिः षड्विकृतीस्तत्याज । पुनष्का (: का) ये निर्ममत्वात्स एकवारं काञ्जिकं पिबति स्म ॥ १०४ ॥ 1. इति द्वितीयसर्वदेवसूरि : ३८. । हील० । 2. इति द्वितीययशोभद्र - नेमिचन्द्रसूरीन्द्रौ ३९. हील० । 3. इति श्रीमुनिचन्द्रसूरिः ४०. हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy