SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ १३१ हीसुं० शाखाप्रशाखाभिरमुष्य वृद्धिर्बुहद्वटस्येव यतो भवित्री । ततो "बृहद्गच्छ इतीह नामापरं गणस्य प्रकटीबभूव ॥१५॥ (१) शाखा वयरीप्रमुखाः प्रशाखास्तदुद्भवा अपरापरनामधेयरूपाः । (२) वृद्धन्यग्रोधस्येव । (३) भाविनी । (४) वडगच्छः ॥१५॥ हील० शा० । शाखाभिरस्य गणस्य वृद्धिर्भाविनी । अतो बृहद्गच्छ इति गणस्य नाम जातम् ॥९६।। हीसुं० 'माहात्म्यनम्रीकृतसर्वदेवः पदे तदीयेऽजनि सर्वदेवः । 'तारापतिस्तारेरकपर्षदेव गुणश्रिया यः प्रभुर न्वयायि ॥१६॥ (१) प्रभावेण नमनशीलीकृतसमस्तसुरः । (२) चन्द्रः । (३) ताराश्रेण्येव । "उडुपरिषदः किं नार्हन्ती[ त्त्वं] निशः किमनौचिती"ति नैषधे । (४) अनुगतः ॥१६॥ हील० माहा० । इन्द्रचन्द्रादिनतः सर्वदेवसूरिस्तत्पट्टे जातः । यः सूरिर्गुणलक्ष्म्या आश्रितः । यथा नक्षत्रमण्डल्या चन्द्रः अनुगम्यते ॥९७॥ .. हीसुं० यो 'रामसेनाह्वपुरे व्रतीन्दुर्लब्धिश्रियं गौतमवद्दधानः । नाभेयचैत्ये महसेनसूनो र्जिनस्य "मूर्तेविद'धे प्रतिष्ठाम् ॥१७॥ (१) रामसेणिनगरे । (२) ऋषभदेवप्रासादे । (३) चन्द्रप्रभस्वामिनः । (४) प्रतिमायाः । (५) चकार ॥१७॥ हील. यो रामसेणिनगरे श्रीऋषभदेवचैत्ये प्रासादे चन्द्रप्रभस्वामिनः प्रतिमायाष्प्र(: प्रतिष्ठां कृतवान् ॥९८॥ हीसुं० चन्द्रावतीशस्य 'नृपस्य नेत्र इवास योऽशेषविशेषदर्शी । तं 'क्लृप्तचैत्यं प्रतिबोध्य वाचा "प्रावाजयत्कुणमन्त्रिणं यः ॥९८॥ (१) चण्डाउलिनृपस्य । (२) समस्तकर्त्तव्यकुशलः । (३) कृतप्रासादम् । (४) दीक्षयामास । (५) कुकुणनामानं प्रधानम् ॥९८॥ हील० चन्द्रा० । यः प्रधानश्चण्डाउलिनगरनृपस्य नेत्र इव जातः । पुन: क्लृप्तं चैत्यं येन स तं तादृशं कुणनाम्ना(नामानं) मन्त्रिणं स्ववचनेन प्रतिबोध्य दीक्षयामास ॥९९।। हीसुं०- 'कुर्वन्निवासं गवि गौरवश्रीगिरामधीशो 'विबुधैरुपास्यः । श्रीदेवसूरिष्किर : कि)मु देवसूरि: पदे तदीयेऽप्यजनि क्रमेण ॥१९॥ (१) वसति । (२) स्वर्गे भुवि च । (३) गुरुत्वेन बृहस्पतित्वेन महत्त्वेन वा शोभा यस्य । (४) वाक्पतिः । (५) पण्डितैर्देवैश्च । (६) बृहस्पतिः ॥१९॥ 1010 1. इति उद्योतनसूरिः ३५. । अत्र गच्छस्य 'बृहद्गच्छ', 'वडगच्छ' इति पञ्चमं नाम जातम् । हील० । 2. इति सर्वदेवसूरिः ३६. हील० । 3. इति देवसूरिः ३७. हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy