SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३० 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० श्रीमानदेवेन पुनः स्व कीर्त्तिज्योत्स्नावदातीकृतविष्टपेन । एतत्पदश्रीरंगमि प्रतिष्ठां शक्तित्रयेणेव नरेन्द्रलक्ष्मीः ॥९ ॥ (१) कीर्त्तिकौमुदीधवलीकृतविश्वेन । (२) अगमि प्रापिता । “निन्ये विजनमजागरि रजनिमगमि मदमयाचि संभोगम् । गोपीहावमकार्यत भावश्चैनामनन्तेन" । "न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्य कर्मणि । प्रत्ययं यान्ति दुह्यादिौणेऽन्ये तु यथारुचि" ॥ इत्यस्योदाहरणानि । (३) प्रभुत्वोत्साहमन्त्रलक्षणेन । (४) राज्यश्री : ॥११॥ हील० श्रीमा०। कीर्त्या धवलीकृतलोकत्रयेण श्रीमानदेवेन (त)त्पट्टश्रीं शोभां लम्भिता । यथा प्रभुत्वोत्साहमन्त्रलक्षणेन शक्तित्रिकेण राज्यश्रीः प्रतिष्ठां प्राप्यते ॥९२॥ हीसुं० वाचंयमेन्द्राद्विमलादिचन्द्रात्पदाब्जभृङ्गीभवदिन्द्रचन्द्रात् । अमुष्य पट्टः श्रियमश्नुते स्म परंतपाद्भप इव प्रतापात् ॥१२॥ (१) विमलचन्द्रसूरीन्द्रात् । (२) चरणकमले भ्रमरीभूतशक्रशशाङ्काद्या यस्य । (३) श्रीमानदेवसूरिपट्ट : । (४) परं वैरिणं तापयतीति सत्यार्थात् ॥१२॥ हील० वाचं० । अस्य पट्टः इन्द्रचन्द्रसेवितात् विमलचन्द्रसूरे: शोभां प्राप्तः । यथा राजा परं तापयतीति तादृशात्प्रतापात् लक्ष्मी प्राप्नोति ।।९३॥ हीसुं० र रे)जेऽस्य पट्टे 'स्मररूपधेयः सूरीन्दुरुद्योतननामधेयः । 'दिग्वारणेन्द्रा इव सूरिचन्द्राः सञ्जज्ञिरे यत्पदधारिणोऽष्टौ ॥१३॥ (१) कन्दर्प इव रूपस्यातिशयो यस्येति गर्तितोपमा । “रूपधेयभरमस्य विमृश्ये" ति नैषधे । (२) दिग्गजाः । (३) उद्योतनसूरिपट्टधराः ॥१३॥ हील० रे० । स्मरवत्प्रशस्तरूपः उद्योतनसूरिस्तत्पट्टेऽभूत् । यत्पट्टधारिणोऽष्टौ आचार्या जाताः ॥९४|| हीसुं० 'मुहूर्त्तमद्वैतमवेत्य टेलीग्रामस्य यः सीम्नि 'बृहद्वटाधः । अस्थापयच्चै त्यतरोस्तलेऽष्टौ "पार्थो गणीन्द्रानिव 'काशिकुञ्जे ॥१४॥ (१) समग्रग्रहगोचरनवासा( वांशा )दिविशुद्धामसाधारणां वेलां विज्ञाय । (२) महतो न्यग्रोधद्रुमतले । (३) समवसरणस्थसर्वजनच्छायाकारिभगवत्केवलज्ञानोत्पाद स्थानक तरुश्चैत्यद्रुमः । (४) पार्श्वनाथेनाष्टौ गणधराः स्थापिताः । (५) वाराणसीवने ॥१४॥ हील० मुहः । य: टेलीग्रामसीम्नि वृद्धवटस्याधो अष्टावाचार्यान् स्थापयत् । यथा पार्श्वनाथो वाराणसीवने अष्टगणधरान् स्थापितवान् ॥९५।।। 1. इति तृतीयमानदेवसूरिः ३३. हील० । 2. इति श्रीविमलचन्द्रसूरिः ३४. हील० । 3. पार्श्वे गणे० हीमु० । पार्श्वे इति अशुद्ध आभाति . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy