SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२९ चतुर्थः सर्गः ॥ (१) पट्टकमलमरालः । (२) आशयं हृदयम् । “दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः" इति नैषधे । (३) ममौ प्रविष्टो वातिलीनो वा । (४) अगस्तिमुनेः । (५) प्रसारिताङ्गुलिः पाणिस्तत्र । (६) समुद्रे( दः) ॥८७॥ हील० तत्पट्टे राजहंसतुल्यः जयानन्दसूरिर्जज्ञे । यद्धृदये समग्रः सिद्धान्तः अमात् । यथागस्तिप्रसृतौ अब्धिर्मातः ॥८८॥ हीसुं० यस्या'ननं 'चन्द्रति दन्तकान्ति ज्योत्स्नायते भ्रूयुगम ङ्कतीह । वाचां विलासोऽपि सुधायते तत्पदे मुनीन्द्रः स रविप्रभोऽभूत् ॥८८॥ (१) मुखम् । (२) चन्द्र इवाचरति । “सर्वप्रातिपदिकेभ्यः क्विप वा आचारे" इति क्विप प्रत्यये । तदुदाहरणानि कृष्णति स्वति कृष्णामास स्वामासेति प्रक्रियाकौमुद्याम् । (३) चन्द्रिकेवाचरति । (४) लाञ्छनमिवाचरति । (५) इह मुखचन्द्रे ॥८८॥ हील० यस्या०। रविप्रभसूरर्वदनं चन्द्रतुल्यं दन्तानां द्योतिर्योत्स्नासमं भ्रूद्वयं अङ्कतुल्यं वाग्विलासोऽपि सुधातुल्यः स रविप्रभस्तत्पट्टेऽभवत् ।।८९॥ हीसुं० वर्द्धिष्णुयत्कीर्त्तिसुधार्णवेन 'व्यलुम्पि नामाप्य सितादिभावैः । ४अर्हन्महिम्नेव जगत्प्र'(त्य )जन्यैः सोऽभूद्यशोदेवविभुष्प( : प)देऽस्य ॥८९॥ (१) वर्द्धनशीलयशोदेवसूरिकीर्त्तिक्षीरसमुद्रेण कृत्वा । (२) लुप्तम् । (३) कृष्ण-नीलपीत-रक्तपदार्थैः । (४) तीर्थकरमाहात्म्येन । (५) ईतिभिः । “अजन्यमीतिरुत्पात" इति हैम्याम् ॥८९॥ हील० वर्द्धि० । वर्द्धमानेन यत्कीतिक्षीरार्णवेन श्यामादिभावैः स्वं नाम विलुप्तम् । यथा तीर्थकरमाहात्म्येन विश्वे ईतिभिः लुप्यते । स यशोदेवसूरिर्जातः ॥१०॥ हीसुं० प्रद्युम्नदेवोऽथ पदे तदीये प्रद्युम्नदेवोऽभिनवो बभूवं । भिन्दन्भ'वं "मुक्तरतिर्द वीयो भवन्मधुर्विश्वविभाव्यमूर्त्तिः ॥१०॥ (१) कन्दर्पदेवः । (२) नवीनः प्राचीनाद्विलक्षणः । (३) ईश्वरं संसारं च । (४) कामकान्ता क्रीडा च । (५) दूरीभूतः । (६) वसन्तो मद्यं च । (७) जगज्जनलोचनकच्चोलकपीयमाना सादरावलोक्यमाना तनुर्यस्य । स्मरस्त्वेवंविधो न ॥१०॥ हील० प्रा० । तत्पट्टे प्रद्युम्नदेवः समजनि । उत्प्रेक्ष्यते । भवं शंकरं संसारं छिदन् सहितो रतिरहितः पुनर जातं मधुर्मद्यं वसन्तो वा यस्य । पुनर्जगद्दृग्गोचरो नूतनः कामः ।।९१।। . 1. इति रविप्रभसूरि, [३०] हील० । 2. इति यशोदेवसूरिः ३१. हील० । 3. इति प्रद्युम्नदेवः ३२. हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy