________________
१२८
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'महर्घ्यमाणिक्यमिवाङ्गलीयं रेखोमाणभूपालकुलप्रदीपः ।
पट्टश्रियं श्रीनरसिंहसूरेरलङ्करोति स्म समुद्रसूरिः ॥८३॥
(१) महामूल्यरत्नम् । (२) मुद्रिकाम् । (३) खोमाणनामानो नृपास्तेषां वंशे प्रदीपः ॥८३॥ हील० मह० । नरसिंहसूरेः पढें खोमाणज्ञातीयः समुद्रसूरिरलङ्कुरुते स्म । यथा बहुमूल्यं रत्नं मुद्रिकामलङ्करते
||८४|| हीसुं० 'दिग्वाससो 'येन विजित्य वादे नागदे नागनमस्यतीर्थम् ।
"स्ववश्यमानीयत भूमिभा "दुर्गः “प्रतीपानिव 'सम्पराये ॥८४॥ (१) दिगम्बरान् । (२) समुद्रसूरिणा । (३) नागदनगरे । (४) श्रीपार्श्वनाथं धरणेन्द्रनमस्करणीयं सप्रभावम् । (५) आत्मायत्तं स्वकीयम् । (६) राज्ञा । (७) कोटः ।
(८) शत्रून् । (९) युद्धे ॥८४॥ हील० दिग्वा० । आशाम्बरान् विजित्य नागहूदे नागनमस्करणीयं पार्श्वबिम्बं श्वेताम्बरसङ्घायत्तं आनीयत। ___ यथा रणे रिपून् जित्वा नृपेन(ण) दुर्गः कोट्टः स्ववश्यः क्रियते ।। इति श्रीसमुद्रसूरिः समभवत्
२६ ॥८५॥ हीसुं० स मानदेवोऽजनि तस्य पट्टे 'वाग्देवता यन्मुखपद्मसद्मा ।
तृप्तामृ तैश्चारुवचोविलासच्छलादिवोद्गारमिवातनोति ॥८५॥ (१) सरस्वती । (२) श्रीमानदेवसूरिमुखमन्दिरा । (३) तृप्ति प्राप्ता सती । (४) पीयूषैः ।
(५) प्रभुवचनवैचित्र्यव्याजात् । (६) अमृतोद्गारम् ॥८५॥ हील. समा० । तत्पट्टे श्रीमानदेवसूरिर्जातः । यन्मुखे स्थिता सरस्वती अमृतोद्गारं कुरुते ॥८६॥ हीसुं० पदे तदीये विबुधप्रभेण स्म भूयते सूरिपुरंदरेण ।
येनाभिभूत(:) किल 'पुष्पधन्वा 'पुनर्युग्युत्सुर्विष मायुधोऽभूत् ॥८६॥ (१) कामः । (२) व्याघुट्य । (३) सङ्ग्रामं कर्तुमिच्छुः । (४) विषमान्यप्रतिहतानि
भयङ्कराणि वा शस्त्राणि यस्य । पञ्चबाणः ॥८६॥ हील० पदे० । तत्पट्टे विबुधप्रभसूरिणा जातम् । येन पराभूतः कामष्पु(: पु)नर्योद्भुमिच्छुस्तीक्ष्णास्त्र:
समजनि ।।८७॥ हीसुं० 'तत्पट्टपङ्केहमानसौकाः श्रीमान्जयानन्दविभुर्बभूव ।।
यस्याशयेऽश्मात्समयोऽप्यशेषः "कुम्भोद्भवस्य "प्रसृताविवाब्धिः ॥८७॥ 1. इति श्रीसमुद्रसूरिः २६. हील० । 2. इति श्रीमानदेवसूरिः २७. हील० । 3. इति श्रीविबुधप्रभसूरिः २८. हील० । 4. इति जयानन्दसूरिः २९. हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org