SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२३ चतुर्थः सर्गः ॥ (१) तस्य महेभ्यस्य चतुःसङ्ख्याका नन्दनास्तस्य वज्रसेनस्य गुरोविनेया भूत्वा नागेन्द्र-चन्द्रनिर्वृत्ति-विद्याधराख्याशाखाधरा आसन् । (२) दैत्यसेनाविजयलक्ष्मीधारिणः । (३) ऐरावणस्य । (४) दन्तकोशाः ॥६१॥ हील० चत्वा०। तस्य चत्वारः नागेन्द्र-चन्द्र-निर्वृत्ति-विद्याधरेति शाखाधराः शिष्या अभवन् । उत्प्रेक्ष्यते। दैत्यसेनाभंजकाः ऐरावणस्य दन्ताश्चत्वारः सन्ति ॥*६२॥ हीसुं० भर्ता 'सुराणामिव लोकपालेष्वेतेषु सौदर्ययतीश्वरेषु । श्रीचन्द्रनाम्ना मुनिपुङ्गवेषु( न ) तत्पट्टपूर्वा प्रमदेन भेजे ॥६२॥ (१) इन्द्रः । (२) भ्रातृसूरिषु । (३) वज्रसेनसूरिपट्टप्राचीदिग् ॥६२॥ हील० भर्ताः। एतेषु चतुर्षु भ्रातृसूरिषु मध्ये श्रीचन्द्रनाम्ना सूरिणा वज्रसेनपट्टप्राची हर्षेण सिषेवे । यथा लोकपालेषु चतुर्पु मध्ये इन्द्रेण प्राची दिग् सेव्यते ॥६३॥* हीसं० राजा 'स्वयं राजनतं सदोषो निर्दोषमङ्गोपगतो 'निरङ्कम् । सास्तो निरस्तं च निजाधिकं चं समीक्ष्य चिक्षाय “शशी 'किमा ॥६३॥ (१) आत्मना । (२) भूपैः प्रणतः । (३) दोषा रात्रयः अपगुणाश्च । (४) समग्रगुणः । (५) कलङ्करहितः (६) सदोदयः (७) क्षयति स्म । (८) चन्द्रः । (९) चिन्तया ॥६३॥ हील. राजा० । शशी किं अर्त्या क्षीणो जातः । किंकृत्वा? । यं दृष्ट्वा । किंभूतं यम् ? किंभूतम् ? शशी-राजा तं राजनतम् । पुनः किंभूतम् ? सदोषस्तं निर्दोषम् । स्वयं कलङ्की तं निष्कलङ्क, स्वयं अस्तवान् तं सदोदयं, अतोऽतिः ॥६४॥ हीसुं० श्रीचन्द्रसूरेरथ चन्द्रगच्छ इति प्रथा 'प्रादुरभूद्गणस्य । ३भागीरथीनाम भगीरथाख्यमहीमहेन्द्रादिव 'देवनद्याः ॥६४। (१) ख्यातिः । (२) गच्छस्य । (३) गङ्गा । (४) सगरचक्रिसूनुजनुनन्दनो भगीरथनामा भूमीपुरन्दरः । (५) गङ्गायाः ॥६४॥ हील० श्रीचन्द्रसूरेश्चन्द्रगच्छनाम जातम् । यथा भगीरथाद् भागीरथी उत्पन्ना ॥६५॥ हीसुं० 'कल्लोलिकारुण्यरसान्वितस्य सामन्तभद्रप्रभुरस्य पट्टम् । व्यराजयद्वारिरुहाकरस्य मध्यं यथोन्मुंद्रितपुण्डरीकम् ॥६५॥ (१) अतिशयप्रवर्द्धमानस्तरङ्गितः कल्लोलितः स वासौ कृपारससमस्तेन कलितः । (२) भूषयति स्म । (३) सरसः । (४) विचालम् । (५) विकसितं सिताम्भोजम् ॥६५॥ 1. सौदर्य० हीमु० । स चाशुद्ध: प्रतिभाति । 2. इति चन्द्रसरिः[१५] । चन्द्रगच्छ ततीयं नाम गणस्य ३ हीला 3. ०थोन्निदि० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy