________________
१२४
'श्री हीरसुन्दर' महाकाव्यम् हील० कल्लो०। बहुलकरुणारसान्वितस्यास्य पढें सामन्तभद्रसूरि भूषयति स्म । यथा तराकमध्यं विकसितं
श्वेतकमलं विराजयति ॥*६६॥ हीसुं० 'वैमुख्यभाग् यो विषयात्कुरङ्गद्वेषीव जज्ञे 'विपिने 'निवासी ।
तस्मान्मुनीन्दोर्वनवासिसंज्ञा परा पुनः प्रादुरभून्मुनीनाम् ॥६६॥ (१) पराङ्मुखता सेवमानः । मनोमात्रमप्यकुर्वाणः । (२) शब्दादिकात् गोचराद्देशाच्च । (३) केसरीव । (४) वने । (५) निवसनशीलः । (६) सामन्तभद्रप्रभोः । (७) वनवासीति
नाम ॥६६॥ हील० वैमु०। यथा देशाद्विमुखः सिंह: वनवासी भवेत्, तथा यः पञ्चकामात्पराङ्मुखः वनवासी जातः ।
पुनस्ततः वनवासी नाम जातम् ॥६७|| हीसुं० 'कोरण्टके 'वीरजिनेन्द्रमूर्ति दृक्पांथवृतिं कृतपुण्यपाकाम् ।
यः "प्रत्यतिष्ठत्किमु सत्रशालां स वृद्धदेवोऽजनि तस्य पट्टे ॥६॥ (१) कोरण्टकनामनगरे । (२) महावीरप्रतिमाम् (३) नेत्रपथिकानां वर्त्तनं यत्र । दृन्तुल्या भ्रमणशीलत्वात्पथिकास्तेषां वृत्तिराजीवो यस्याम् । ( ४ ) निर्मितः सुकृतस्य पाकः फलप्रदानाभिमुखता यया पक्षे रचितः पवित्रः पाकोऽन्नादिसंस्कारो यस्याम् । (५) प्रतिष्ठितवान् ।
(६) दानशालाम् ॥६७॥ हील० कोर०। दृश एव पान्थास्तेषां वृत्तिर्यत्र, ताम् । पुनः कृतः पुण्यस्य पाकः फलाभिमुखता यया ।
तादृशीं वीरजिनप्रतिमां यः प्रतिष्ठितवान् । उत्प्रेक्ष्यते । सत्रसा(शा)लां निर्मितवान् । स वृद्धदेवसूरिस्तत्पट्टे
अभवत् ॥६८॥ हीसुं० प्रद्योतनाह्वप्रभुणाप्य'मुष्य पट्टष्य(: पोरं वैभवमाबभार । ___ त्रैलोक्यलक्ष्मीतिलकायितेन पितुः स्वपुत्रेण यथा न्ववायः ॥१८॥ (१) प्रद्योतननामसूरिणा । (२) वृद्धदेवसूरिशक्रस्य । (३) भुवनत्रयश्रियस्तिलकवदाचरितेन ।
(४) स्वस्य पितुरेव नन्दनेन । (५) वंशः ॥६८॥ हील० प्रद्योतनसूरिस्तत्पट्टे जातः । यथा राज्ञोऽन्वये उत्तमः पुत्रो भवति ॥६९।। हीसुं० 'प्रबोधयन्भ'व्यसरोजराजी: संशोषयन्दुण( न )यकर्दमांश्च ।
'दोषोदयं निर्दलयन्महस्वी “प्रद्योतनोऽन्यः किमभूद्भुवोऽयम् ॥६९॥ (१) प्रतिबोधयुक्तान्कुर्वन् विकाशयंश्च । (२) भविककमलमालाः । (३) नाशयन् विरलीकुर्वन्वा । (४) मिथ्यादृग्जम्बालान् । (५) अपगुणानां-रात्रीणां चाविर्भावम् । (६)
1. इति सामन्तभद्रसूरि:[१६] । वनवासीति गच्छस्य चतुर्थं नाम । हील० । 2. इति वृद्धदेवसूरिः १७ हील० । 3. पढें हीमु०। 4. इति प्रद्योतनसूरिः १८ हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org