SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२२ __'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'प्राबोधयत्बौद्धपुरीप्रभुं यः सार्द्ध समग्रैरपि पौरलोकैः । साकं शकुन्तैरिव "पङ्कजानां कुचं "समुद्यद्गगनाध्वनीनः ॥५७॥ (१) प्रतिबोधयति स्म । श्रावकश्चक्रे । (२) बौद्धनगरस्वामिनम् । (३) नगरजनैः सार्द्धम् । (४) पक्षिभिः । (५) कमलानाम् । (६) वनम् । (७) उदयमानभानुः ॥५७॥ हील० प्राबो०। यः सुगतनगरीस्वामिनं जैनं चकार । यथोदितो रविः कुजं विकाशयति ।।*५८॥ हीसुं० 'अपास्यति 'स्माढयसुतां सरागां सुवर्णकोटी: सह रुक्मिणीर्यः । "क्रीडन्मृगेन्द्रां स्मित सल्लकीभिनि कुञ्जराजीमिव “कुञ्जरेन्द्रः ॥५८॥ (१) त्यजति स्म । (२) व्यवहारिपुत्रीम् । (३) सस्नेहाम् । (४) कनककोट्या समम् । (५) रममाणसिंहाम् । (६) विकसितगजप्रियतरुयुक्ताम् । “सल्लकी तु गजप्रिया" ।(७) वनमालाम् । (८) गजेन्द्रः ॥५८॥ हील० अपा०। यः रुक्मिणी कन्यां सरागामपि तत्याज । यथा गजेन्द्रः मृगेन्द्रसहितां वनराजी त्यजति ॥ ५९॥ हीसुं० श्रीवज्रसेनोऽथ 'तदीयपढें 'व्यभासयत्प्रीणितजन्तुजातः । "स्फुरन्मदोद्भेद इव 'द्विपेन्द्रकपोलमा नन्दितचञ्चरीकः ॥५९॥ (१) वज्रस्वामिसम्बन्धिपदम् । (२) शोभयति स्म । (३) प्रतिबोधप्रदानेन तृप्तियुक्ताः कृता जन्तूनां-प्राणिनां समूहा येन । (४) प्रकटीभवन्मदवारिण उदयः । (५) करिकपोलस्थलम्। (६) प्रमोदितमधुकरः ॥५९॥ हील० श्री वज्रसेनः तदीयपढें व्यभासयत् । यथा माद्यभ्रमरो मदोद्भावः गजकपोलं विभासयति ॥६०॥ हीसुं० 'दुर्भिक्षके 'पायसमेक्ष्य "लक्षपक्वं महेभ्यस्य गृहे प्रभर्यः । दिने द्वितीये "कुलदेवतेव न्यवेदयद्भाविसुभिक्षमस्य ॥६०॥ (१) दुष्कालवर्षेषु । (२) परमान्नम् । (३) दृष्ट्वा । (४) लक्षसुवर्णैः शालि-दुग्ध-घृतखंडादि मेलयित्वा राद्धम् । (५) कस्यचिद्व्यवहारिणो मन्दिरे । (६) आगामिदिवसे । (७) इष्टगोत्रसुर इव । (८) कथयति स्म । (९) भविष्यन्तं सुभिक्षं सुकालम् । (१०) व्यवहारिणः ॥६०॥ हील० यः भाविनं सुकालं कथयति स्म ॥*६१॥ हीसुं० 'चत्वार एतत्तनुजा विनेयाः शाखाभृतस्तस्य विभोर्बभूवुः । इवा मरद्वेष्टि षि)चमूजयश्रीजुषः सुरेन्द्रद्विरदस्य "दन्ताः ॥६१॥ 1. समं हीमु०। 2. यो रुक्मिणी काञ्चनकोटिभिश्च हीमु०। 3. इति वज्रस्वामी १३ हील०। 4. सुकाल० हीमु० । 5. नया वि० हीमु० । 6. इति वज्रसेनः ४ हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy