SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ ११९ नाम बभूव । किंभूतात् तत्सूरियुग्मात् दुग्धाम्बुराशेश्च ?। हृदयेन मध्येन च तीर्थङ्करं कृष्णं च धारयतः ॥४४॥ हीसुं० 1श्रीइन्द्रदिन्नव्रति सार्वभौमस्त त्पट्टलक्ष्मीतिलकं बभूव । ___ निशुम्भ्यते "दाम्भिकता स्म येन पकलिन्दकन्येव पहलायुधेन ॥४४॥ (१) चक्रवर्ती । (२) सुस्थित-सुप्रतिबद्धसूरिपट्टश्रियास्तिलकम् । (३) हन्यते स्म । (४) कापट्यम् । (५) यमुनेव । (६) बलभद्रेण ॥४४॥ हील० तत्पट्टे श्रीइन्द्रदिन्नसूरिर्जातः । येन कापट्यं निर्दलितम् । यथा बलभद्रेण यमुना पराभूता । "रुक्मिप्रलम्बयमुनाभिदनन्तभाल'' इति हैम्याम् ॥४५।। हीसुं० पक्षद्वयं भिन्नतमोभरेण पित्रोष्य( : प)वित्रीक्रियते स्म येन । "कुबेरदिग्दक्षिणयोष्प ( : प)दव्योर्द्वन्द्वं प्रियेणेव "पयोजिनीनाम ॥४५॥2 (१) जननीजनकसम्बन्धिकुलद्वन्द्वम् । ( २ ) निहताज्ञानान्धकारनिकरण । (३) जननीजनकयोः । (४) उत्तरादक्षिणयोः । (५) मार्गयोः । (६) युगलम् । (७) भानुनेव ॥४५॥ हील० पक्ष०। येन मातृपित्रोर्वंशद्वन्द्वं पावनीचक्रे । यथा सूर्येणोत्तरायाम्योर्मार्गयोर्द्वन्द्वं पवित्र्यते । येन भानुना च किंभूतेन ?। भिन्नः पाप्मनां वा ध्वान्तानां भरः समूहो येन स, तेन ॥४६।। हीसुं० श्रीदिन्नसूरिर्गुण भूरिर स्मात्सप्तर्षिभूरङ्गिरसाद्यथासीत् । येनानुरागोऽवधि कालनेमिः "कल्लोलिनीवल्लभशायिनेव ॥४६॥ (१) प्रभूतगुणः । (२) इन्द्रदिन्नसूरेः । (३) बृहस्पतिः । ( ४ ) अङ्गिरा नाम तापसविशेषः । (५) हतः । (६) दैत्यविशेषः । (७) कृष्णेन ॥४६॥ हील० श्रीदि०। अस्माद्गुणबहुल: श्रीदिन्नसूरिर्जातः । यथाङ्गिरसस्तापसाबृहस्पतिर्जातः । येनानुरागो हतः। यथा नारायणेन कालनेमिर्हन्यते स्म ॥*४७|| हीसुं० 'पञ्चाशुगान्यः समितीविधाय बभञ्ज 'पञ्चाशुगपञ्चबाणीम् । शरेण केनापि न चेत्कदाचित्कस्मान्न तं स प्रभवेद्धनुष्मान् ॥४७॥ (१) पञ्चसङ्ख्याकान् बाणान् । (२) स्मरपञ्चशरान् । (३) समर्थीभवेत् । (४) धनुर्धरः ॥४७॥ हील० पञ्चा०। पञ्चसमितिरूपैः पञ्चबाणैः कामस्य पञ्चानां बाणानां समाहारं चिच्छेद । एवं चेन्न तहि स स्मरधनुर्द्धरः केनापि शरेण कस्मिन्नपि प्रस्तावे कस्मात्तं दिन्नसूरि न प्रहरेत् ॥४८।। 1. अत्र गणस्य द्वितीयनामाजनि हील०। 2. इति श्रीइन्द्रदिन्नसूरि:१० हील०। 3. ०रसो यथा० हीमु०। 4. ०द्वपुष्मान् इति हीमु० दृश्यते । स चाशुद्ध: । 5. इति श्रीदिन्नसूरि:११ हील०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy