________________
११८
'श्री हीरसुन्दर' महाकाव्यम् (१) जिनानाम् । (२) गृहेषु प्रासादेषु । (३) सूत्रधारनिकरैः । “सङ्घसार्थौ तु देहिनां
'समूहे" । (४) कारयति स्म । (५) तीर्थकृतां प्रतिमाः ॥३९॥ हील० यः सम्प्रतिराजा स्वकारितप्रासादेषु सूत्रधाराणां समूहै: कृत्वा सपादकोटीजिनानां प्रतिमा
अचीकरन्निर्मापयामासिवान् । नु इति वितर्के । आत्मनो यशांस्येव निधयो-निधानानि तेषां मञ्जूषा
इव ॥४०॥ हीसुं० 'नक्तं नलिन्यादिमगुल्मनामविमानमार्गः प्रभुणा च येन । ___स्नेहप्रियेणेव महेभ्यसूनोरदय॑वन्तीसुकुमालनाम्नः ॥४०॥
(१) रात्रौ । (२) नलिनीगुल्मविमानमार्गः तपस्याग्रहणपूर्वश्मशानकायोत्सर्गपरीषहसहनलक्षणः ।
(३) प्रदीपेन ॥४०॥ हील० नक्तं० । येनावंतीसुकुमालस्य: नलिनीगुल्मविमानमार्गः दर्शितः । यथा प्रदीपेन मार्गः दर्श्यते
॥४१॥ हीसुं० 'स्थाने गतस्य त्रिदिवं स्ववप्तुळधादरेवन्तीसुकुमालसूनुः ।
नाम्ना महाकाल इतीह पुण्यपानीयशालामिव सार्वशालाम् ॥४१॥ (१) देवलोकगमनभूमौ । (२) निजतातस्य । (३) अवन्तीसुकुमालस्य नन्दनः । (४)
सुकृतप्रपाप्रसादम् ॥४१॥ हील० स्थाने। अवन्तीसुकमालपुत्रः उज्जयिन्याष्प(: प)रिसरवर्तिकन्थेरिकावनश्मशाने अवन्तीपार्श्वनाथ
प्रासादं चकार । यथा प्रपा कार्यते ।।*४२॥ हीसुं० श्रीमत्सुहस्तिव्रतिवासवस्य श्रीसुस्थितः सुप्रतिबद्धसूरिः ।
पदं विनेयौ नयतः स्म लक्ष्मी क्रमं 'मुरारेरिव "पुष्पदन्तौ ॥४२॥
(१) सुहस्तिसूरीन्द्रस्य । (२) शिष्यौ । (३) गगनम् । (४) सूर्यचन्द्रौ ॥४२॥ हील० श्रीसुहस्तिसूरिपट्टे द्वौ विनेयौ भवतः स्म । यथा मुरारिचरणे आकाशे पुष्पदन्तौ सूर्याचन्द्रमसौ ।
पुष्पदन्तौ "पुष्पदन्तावेकोक्त्या शशिभास्करौ" शुशुभाते ॥४३॥ हीसुं० प्रीति सृजन्ती पुरुषोत्तमानां 'दुग्धाम्बुराशेरिव पद्मवासा ।
"हृदा 'जिनं बिभ्रत आविरासीत्तत्सूरियुग्मादिह "कौटिकाख्या ॥४३॥ (१) पुरुषश्रेष्ठानां विष्णूनां च । (२) क्षीरसमुद्रात् । (३) लक्ष्मीः । ( ४ ) मनसा मध्येन
च । (५) अर्हन् विष्णुश्च । (६) सुस्थित-सुप्रतिबद्धसूरिद्वन्द्वात् । (७) कौटिकशाखा ॥४३॥ हील० प्रीति०। यथा कृष्णस्य प्रीतिकारिणी लक्ष्मी: समुद्रादुत्पन्ना तथा तस्मात्सूरियुग्मात् कोटिकगण इति 1. वन्दे हीमु०। 2. स्ववप्तस्त्रिदिवं गतस्य व्य० हीमुः। 3. इति सुस्थित-सुप्रतिबद्धसूरी, एकपट्टधरौ ९ हील०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org