SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ हीसुं० 'धर्मोपदेशच्छलतः स्वपाणिसंज्ञाज्ञया स्तम्भतलाददर्शि । निधिः स्वनिक्षिप्त इव 'प्रवासिसुहृद्गृहिण्या 'गृहमेत्य येन ॥३५॥ (१) धर्मदेशनाव्याजात् । (२) निजहस्तदर्शनरूपादेशेन । ( ३ ) स्तम्भाधः प्रदेशात् । (४) आत्मना भूमौ स्थापित इव । ( ५ ) परदेशगतनिजमित्रप्रियायाः । ( ६ ) मित्रमन्दिरम् । (७) आगत्य ॥ ३५॥ हील० येनो० | परदेशगतस्य मित्रस्य पत्न्या गृहे आगत्य येन उपदेशमिषात् स्वकरसंज्ञादेशेन स्थम्भतलानिधिरदर्शि । यथा स्वनिक्षिप्तो दर्श्यते ॥ * ३६|| हीसुं० पट्टेऽथ तस्यार्यमहागिरिश्चापरः क्रमादार्यसुहस्तिसूरिः । बभूवतुर्धर्म्मधुरं दधानौ रथे यथा सारथिकस्य ॥ ३६ ॥ ( १ ) स्थूलभद्रस्य । (२) आर्यमहागिरि - आर्यसुहस्तिनामानौ । ( ३ ) रथस्य वोढारौ वृषभौ ॥३६॥ हील ० तत्पट्टे द्वौ पट्टधरो बभूवतुर्यथा नियन्तुः रथे द्वौ वृषभौ भवतः ||३७|| हीसुं मरुद्गृहा' दार्यसुहस्तिमूत्तिर्मरुदुमः क्षोणिमिवोत्ततार । "कृपार्णवेन 'दमकोऽपि येन त्रिखण्डभूमीप्रभुता मलम्भि ॥ ३७ ॥ ११७ ( १ ) स्वर्गलोकात् । (२) आर्यसुहस्तिसूरिशरीरः । ( ३ ) कल्पवृक्षः । (८) दयासमुद्रेण (५) भिक्षुकोऽपि । (६) षोडशसहस्रदेशाधिपत्यम् । ( ७ ) प्रापितः ||३७|| हील० मरु० । स्वर्गात् आर्यसुहस्तिमिषात्सुरतरुरवातरत् । यत्प्रसादाद् द्रमकोऽपि त्रिखण्डभूमी जात: 11*3411 हीसुं० 'भूसुभ्रुवो भर्तृतया प्रगल्भभूषाविशेषानिव शातकौम्भान् । सपादलक्षानिह संप्रतिर्यो निर्मापयामास महाविहारान् ॥ ३८ ॥ (१) भूमीस्त्रियाः । ( २ ) मनोज्ञाभरणविशेषान् । (३) सुवर्णसम्बन्धिनः । ( ४ ) -उत्तुङ्गशृङ्गप्रासादान् ॥३८॥ हील० य: इह जगति सपादलक्षान्महाविहारान् शिल्पिभिः कारयामास । उत्प्रेक्ष्यते । पृथ्व्याः पतित्वेन कारितान्प्रगल्भान्मनोज्ञान्भूषार्थं तिलकानिव ॥ ३९ ॥ हीसुं० यः संप्रतिक्षोणिपतिः सपादकोटीर्नु पेटीः स्वयशोनिधीनाम् 'स्याद्वादिनां `सद्मसु ’शिल्पिसङ्घै' रचीकर' त्पारगतीयमूर्त्तिः (र्त्तीः) ॥३९॥ 1. येनोपदे० हीमु० । 2. ०ण्याः सदने समेत्य हीमु०। 3. इति स्थूलभद्रस्वामी ७ हील०। 4. भूमौ मरुद्वक्ष इवोत्त० । हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy