SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ हीसुं० स तत्सं तीर्थोऽजनि भर बाहुसूरिः समग्रागमपारदृश्वा । दशाश्रुतस्कन्धत उद्दधार 'वज्राकरा' ज्रमिवात्र 'कल्पम् ॥२८॥ (१) सतीर्थ्यास्त्वेकगुरवः । ( २ ) समस्तसिद्धान्तपारगामी । ( ३ ) नवमपूर्वे दशाश्रुतस्कन्धाध्ययनात् ( ४ ) उद्धृतवान् । ( ५ ) हीरकखने: । ( ६ ) हीरकमणि । ( ७ ) कल्पसूत्रम् ॥२८॥ हील० स त० । स भद्रबाहुः स्वामी सम्भूतिविजयस्य गुरुभ्राताऽभूत् । यः प्रत्याख्यानाभिधे नवमपूर्वे दशाश्रुतस्कन्धाध्ययनतः कल्पं उद्धृतवान् । यथा कश्चिद्भाग्यवान् हीरकाणामाकराद्रत्नमुख्यमुद्धरति ।। * २८।। हीसुं० 'उपप्लवो 'मन्त्रमयोपसर्गहरस्तवेनावधि येन सङ्घात् । " जनुष्मतो "जाङ्गुलिकेन 'जाग्रद्गरस्य 'वेगष्कि (: कि) ल 'जाङ्गुलीभिः ॥२९॥ (१) वराहमिहिरव्यन्तरविनिर्मितसङ्घजनोपद्रवम् । ( २ ) विषधरस्फुलिङ्गनाममन्त्रसङ्कलितोपसर्गहरस्तवनेन कृत्वा । ( ३ ) निवारितः । ( ४ ) जनस्य । (५) विषभिषजा । (६) प्रसरद्भुजङ्गमविषस्य । (७) विस्तारः ( ८ ) भुजगविषापहारिणीविद्याभिः ॥२९॥ हील० येनोपसर्गहरस्तवेन सङ्घात् उपद्रवो हतः । यथा जाङ्गुलिकेन स्वविद्याभिर्जनात् प्रसरद्विषवेगो हन्यते ॥२९॥ हील० यत्कीर्त्तिगङ्गां प्रसृतां त्रिलोक्यामालोक्य किं षण्मुखतां दधानः । जयद्भ्रमीभिर्जननीं दिदृक्षुर्गङ्गासुतोऽध्यास्त मयूरषृष्ठम् ॥३०॥ इति भद्रबाहुस्वामी, द्वयोरेकपट्टधरत्वम् । यत्कीर्त्तिगङ्गां व्याप्तां दृष्ट्वा मुखषट्केन स्वमातरं द्रष्टुं कुमारो मयूरमारुरोह ||३०|| हीसुं० श्रीस्थूलभद्रेण नि'जान्ववायस्त्रोतस्विनीनायककौस्तुभेन । विश्वत्रयी तद्यशसेव शोभामलम्भि तत्पट्टपयोधिपुत्री ॥३०॥ ११५ (१) स्वकीयो यो नागरनामब्राह्मणवंशः स एव सागरस्तत्र कौस्तुभरत्नसदृशः । नारायणभुजस्थास्तु: कौस्तुभो मणिः । (२) स्थूलभद्रस्य कीर्त्येव । ( ३ ) संभूतिविजयप्रभुपट्टश्रीः ॥३०॥ हील० यथा स्थूलभद्रकीत्र्त्या जगच्छोभायितं तथा कौस्तुभतुल्येन स्थूलभद्रेणपट्टलक्ष्मीः शोभां प्रापिता ||३१|| हीसुं० 'प्रवालमुक्तामणिमञ्जिमश्रीचित्राप्सरः स्वर्द्विरदाश्वदृश्यम् । कोशागृहं प्रावृषि यो' निषेवे हरिर्घन र च्छायमिवाम्बुराशिम् ॥३१॥ 1. भद्रबाहुः सू० हीमु० । 2. यः सिषेवे हिमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy