________________
'श्री हीरसुन्दर' महाकाव्यम्
यथा किरीटी गुरुगाङ्गेयदृष्ट्या बाणगङ्गां प्रकटीकरोति स्म ॥२२॥
हीसुं० वगाह्य' शास्त्रं मनकाह्वसूनोः कृतेऽकृत श्री दशकालिकं यः ।
हरिः सुधामुद्धृतवान्सु पर्ववर्गस्य निर्मथ्य यथाम्बुनाथम् ||२३||
११४
(१) चतुर्दशपूर्वान् निर्मथ्य । (२) मनकनामनन्दनकृते । (३) दशवैकालिकं कृतवान् । ( ४ ) कृष्टवान् । ( ५ ) देवगणस्य । (६) विलोड्य । (७) समुद्रम् ॥२३॥
हील० वगा० । यः समयमवगाह्य मनककृते दशवैकालिकं सूत्रं चक्रे । यथा कृष्णः समुद्रं विलोड्य देववृन्दकृते सुधामुद्धृतवान् ॥*२३॥
हीसुं० सम्पूरयन्कीर्ति नभोनदीभिर्दिशो यशोभद्गणाधिराजः । व्यभूषयत्पट्टममुष्य भूभृदधित्यकां दस्युरिवद्विपानाम् ॥२४॥ ( १ ) गङ्गाप्रवाहैः । (२) शैलोपरिभूमीम् । ( ३ ) केसरीव ॥२४॥ हील० यशोभद्रसूरिरस्यं पट्टं विभूषयति स्म । यथा केसरी शैलोर्ध्वभूमीं भूषयति ॥२४॥ हीसुं ० 'एतद्यशः क्षीरधिनीरपूरैः सम्पूरितायां परितस्त्रिलोक्याम् । अबुध्यमानोऽम्बुनिधिं स्वशय्यां पद्मशयोऽभूदिव 'पद्मनाभः ॥ २५ ॥
( १ ) यशोभद्रसूरिकीर्ति क्षीरसमुद्रप्रवाहैः । (२) धवलीकृतायाम् । (३) अजानन् । ( ४ ) समुद्रम् । (५) निजशयनयोग्यम् । ( ६ ) पद्मे शेते इति व्युत्पत्त्या पद्मेशयः । ( ७ ) कृष्णः ॥ २५ ॥ हील० एत० । श्रीयशोभद्रयशोभिर्धवलितायां भुवि स्वशय्यां अजानन् कृष्णः पद्मशायी जातः ||२५|| हीसुं० 'संभूतिपूर्वो विजयो गुरुस्तत्पट्टं श्रिया पल्लवयांचकार ।
कदम्बजम्बूकुटजावनीजकु नभोम्भोद इवाम्बुवृष्ट्या ॥२६॥
(१) संभूतिविजयगुरुः । ( २ ) नीप : 'कुडउ' इति प्रसिद्धः । त्रयोऽपि दुमाः प्रावृषि पुष्यन्ति । (३) श्रावणजलधरः ॥ २६ ॥
हील० सम्भूतिविजयोऽस्य पट्टमभूषयत् । यथा श्रावणमेघः कदम्ब - जम्बू- कुटजान् वृक्षान् पल्लवयति ॥ २६ ॥ हीसुं० ' संहर्षरोषात्स्व' जिघांसुमेतत्प्र तापमार्त्तण्डमवेक्ष्य साक्षात् ।
'युयुत्सया हैहयवत्सहस्त्रं सहस्त्रभासेव करायन्ते ॥२७॥३
( १ ) स्पर्धात् क्रोधात् । ( २ ) निजं हन्तुमिच्छन्तम् । ( ३ ) सूर्यम् । ( ४ ) सङ्ग्रामं कर्त्तुमिच्छया । (५) कार्त्तवीर्य इव "ङ्ग्रामनिर्विष्टसहस्रबाहु" रिति रघुवंशे तथा - " बाहुसहस्त्रार्जुनः पिशुन" इति सूक्ते । ( ६ ) भानुनेव । (७) किरणा हस्ताश्च ॥ २७ ॥
हील. संहर्ष० । स्पर्द्धया क्रोधात् स्वं हन्तुमिच्छ्रं अस्य प्रतापसूर्यं दृष्ट्वा सूर्येण सहस्रं किरणा थ्रियन्ते । यथा योद्धुमिच्छया अर्जुनः सहस्रपाणीन् धत्ते ||२७||
1. इति शय्यंभवगणधर : [४] हील० । 2. इति यशोभद्रसूरिः ५ हील० । 3. इति सम्भूतिविजयसूरिः ६. हील |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org