SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ हीसुं० पश्यन्तु 'वैदुष्यममुष्य जम्बूप्रभोर्व पुर्भत्सितमत्स्यकेतोः । विश्वं वृषस्यन्त्यपि 'पांशुलेव वशीकृता येन शिवस्मिताक्षी ॥ १८॥२ (१) चातुर्यम् । (२) शरीरसौन्दर्यनिर्जितमदनस्य । (३) भुवनमप्यभिलषन्ती । ( ४ ) व्यभिचारिणीव । (५) निजवशे कृता । त्वया सङ्कं विधाय नान्यं भारतमानुषमथाभिलषामीत्यर्थः । (६) सिद्विश्रीः ||१८|| हील० पश्यन्तु चातुर्यमस्य यत्पांशुलेव विश्वं कामुकी अपि मुक्तिर्येन स्वायत्ता कृता ॥ * १८ || हीसुं० अलंचकार प्रभवप्रभुस्तत्पट्टश्रियं पुण्ड्र इवेन्दुवक्त्राम् । 'स्तेनोऽपि सार्थेश इवाङ्गिनो यः श्रेयः श्रियं प्रापयदत्र चित्रम् ॥१९॥ (१) तिलक इव । (२) कान्ताम् । ( ३ ) चौरोऽपि । ( ४ ) सार्थनाथ इव । (५) प्राणिनः । (६) मुक्तिलक्ष्मीम् ॥१९॥ ११३ हील० जम्बूस्वामिपट्टं प्रभवस्वामी भूषयति स्म । यथा चन्द्रमुखीं तिलक [ मलंकुरुते ।] यश्चौरान्सन् सार्थपतिरिव जनान् कुशलेन लक्ष्मीं- मोक्षलक्ष्मीं च लम्भयति स्मेति चित्रम् ||१९|| हीसुं० किं वर्ण्यते वर्ण्यगुणस्य चौर्यचातुर्यमस्य प्रभवस्य भर्तुः । 'अहार्यमप्येष मनोनिधान-मपाहरद्य'त्रिदिवेन्दिरायाः ॥२०॥ (१) प्रशस्यते । (२) लोकोत्तरगुणस्य । ( ३ ) तस्करतायाः निपुणताम् । ( ४ ) हर्त्तुमशक्यमपि । (५) स्वर्गलोकलक्ष्याः ॥ २० ॥ हील० किं वर्ण्य० । अस्य ] चौर्यचातुर्यं किं वर्ण्यते । यत् स्वर्वधूनां अहार्यमपि देवाश्रयत्वान्मनोनिधानं अयं जहार । मुक्तिगमनाभावात् स्वर्लोक [मेवालंकृतवा ] नित्यर्थः ॥२०॥ हीसुं० शय्यंभवोऽभूषयदस्य पट्टं सिंहासनं त्र्यमिवावनीन्द्रः । 'कलिन्दिका 'मौक्तिकमालिकेव यत्कण्ठपीठे 'विलुठत्यकुण्ठा ॥२१॥ (१) प्रभवप्रभोः । (२) पितृसम्बन्धि । ( ३ ) सर्वविद्या । ( ४ ) हारयष्टिरिव । (५) स्फुरन्ती ॥२१॥ हील० शय्यं० । शय्यंभवः अस्य पट्टं अभूषयत् । यथा राजा पितुः सिंहेनोपलक्षितमासनं भूषयति । [ मुख एव] कलिन्दिका सर्वविद्या मुक्ताहारलतेव दीप्यमाना विलुठति ॥ *२१॥ हीसुं० 'यूपादधस्तः प्रतिमां २ जिनेन्दोर्वाचा स वाचंयमपुङ्गवस्य । 'दृक्संज्ञयेव स्वगुरोष्कि (: कि) रीटी नाराचगङ्गां 'प्रकटीचकार ॥२२॥ (१) यज्ञस्तम्भादधोविभागात् । ( २ ) शान्तिनाथबिम्बम् । ( ३ ) शय्यंभवगुरुवचनात् । (४) दृष्टेश्चेष्टया-भ्रूभङ्गविकारेण (५) द्रोणाचार्यस्य ( ६ ) अर्जुनः । ( ७ ) बाणगङ्गाम् । ( ८ ) प्रकटीकृतवान् ॥२२॥ हील० यूपा० । यः प्रभवप्रभोर्वाचा यूपात् अधस्तात् शय्यंभवभट्टः श्रीशान्तिनाथप्रतिमां कर्षति स्म । 1. ०तास्या हीमु० । 2. इति जम्बूस्वामी [२] हील० । 3. त्रिदिवानायाः हील० । 4. इति प्रभवस्वामी [३] हील० । 5. पित्र्यo हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy