________________
११२
'श्री हीरसुन्दर' महाकाव्यम् यत्र । (२) महार्थतया अथाप्तपारः अतलस्पृक्, मध्यश्च । (३) शान्तरसादिभिः पानीयैश्च शोभमानः । (४) यः सुधास्वाम्येवाद्यं ज्ञानं यत्र । सुधर्मस्वामिकृत इत्यर्थः । (५)
प्रकटीभवन्तः । (६) सम्पूर्णा रचनास्तरङ्गाश्च यत्र । (७) समुद्रः ॥१३॥ हील० सरस्व०। यः सुधर्मास्वामी उपज्ञा आद्यज्ञानं यत्र तत्कर्तृकत्वात् सिद्धान्तः समुद्र इवास्ते । किंभूतः
सिद्धान्तः समुद्रश्च ? । श्रुतदेव्या नद्या च शाली दीप्यन्ती (दीप्यमाना) जिनानां श्रीयंत्र । पक्षे क्रीडत्कृष्ण
लक्ष्मीवान् । पुना रसै रसेन जलेन च शोभितः । पुनः प्रकटीभवन्तोऽभङ्गा भङ्गास्तरङ्गाश्च यत्र ॥१३॥ हीसुं० 'गणीन्दुना पट्टरमा गणीन्दुः "पट्टश्रिया च 'व्यतिभासते स्म ।
निशा निशेशेन निशा "निशेश इवापि “शंभोष्प (:प)रिचारिचेताः ॥१४॥ (१) सुधर्मस्वामिना । (२) पट्टश्रीः । (३) सुधर्मस्वामी । (४) पट्टश्रिया । (५) परस्परं शोभते स्म । (६) रात्रिश्चन्द्रेणेव । (७) रात्र्याचन्द्र इव । (८) तीर्थकृत् ईश्वरश्च, तस्य ।
(९) सेवासक्तमानसः ॥१४॥ हील. गणी० । सुधर्मस्वामिना पट्टश्रीः, पट्टश्रिया स शोभते स्म । यथा चन्द्रेण निशा, निशा कृत्वा चन्द्रः
शुशुभे । सोऽपीशसेवकः, अयमपि श्रीवीरसेवकः ॥१४॥ हीसुं० यश:श्रिया धःकृतकुन्दकम्बुर्जम्बूकुमारोऽजनि तस्य पट्टे ।
'लघोरपि स्वस्य यतोऽभिभूतिं पश्यन्हिया दृश्य इव स्मरोऽभूत् ॥१५॥ (१) तिरस्कृतमुचकुन्दशङ्खः । (२) बालादपि । (३) आत्मनः । (४) पराभवम् ।
(५) अनङ्गः ॥१५॥ हील. यश:०। तत्पट्टे श्रीजम्बूकुमारोऽजनि । शिशोरपि यतः कुमारात् स्वपराभवं पश्यन् स्मरः । उत्प्रेक्ष्यते ।
लज्जयेवादृग्गोचरः अभूत् ॥१५॥ हीसुं० 'उज्झांचकारैष महेभ्यकन्या 'मदेन्दिरामूतिमतीरिवाष्टौ ।
नवाधिकां यो नवतिं "हिरण्य कोटीश्च चेटीरिव "दोषराजा( ज्ञा)म् । १६॥ (१) त्यजति स्म । (२) मदलक्ष्मी । (३) नवनवतिम् । (४) स्वर्णकोटिम् । (५)
अष्टादशदोषभूपानां दासीरिव ॥१६॥ हील० उज्झा० । अष्ट पदानिवैष अष्टौ कन्यास्त्यजति स्म । पुनर्यो नवनवति सुवर्णकोटीस्त्यजति स्म ।
उत्प्रेक्ष्यते । अष्टादशदोषभूपचेटीस्त्यजति स्म ॥१६॥ हीसुं० 'वशंवदीभूतजगत्त्रयस्य न 'पुस्फुरेऽस्मिन्कमनस्य शक्त्या ।
"हविर्भुजो ५भस्मितकाननस्य विस्फूय॑ते किं महसाबुराशौ ॥१७॥ (१) वश्यं जातं त्रिभवुनं यस्य । (२) न स्फुरितम् । (३) मदनसामर्थ्येन । (४) अग्नेः ।
(५) ज्वालितवनस्य । (६) प्रतापेन । (७) समुद्रे ॥१७॥ हील० वशं० । अस्मिन् कामशक्त्या न स्फुरितम् । यथा वह्नहिसां प्रतापेन । किमिति प्रश्नेऽब्धौ स्फूर्च्यते।
अपि पुनः ॥१७॥ 1. ०कोटीन हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org