________________
चतुर्थः सर्गः ॥ हीसुं० लूतास्यतन्तूनवलम्ब्य वज्रावलम्बरश्मीनिव यः शयाभ्याम् ।
नन्तुं जिना'नार्षभिक्लृप्तमूर्तीग्नष्टापदोर्वीधरमारोह ॥९॥ (१) कर्णनाभः कोलिकस्तद्वदनाद्विनिर्गतजालतन्तवः रज्जवस्तान् कराभ्यामाश्रित्य वज्ररज्जव
इव हस्ताभ्याम् । (२) भरतचक्रिनिर्मितप्रतिमान् । (३) अष्टापदपर्वतम् । (४) चटितः ॥९॥ हील० [सूर्य० । र]ज्जूरिव सूर्यकिरणान् कराभ्यामवलम्ब्य भरतचक्रिकारितजिनबिम्बानि नन्तुं यो
गौतमोऽष्टापदपर्वतमधिरूढवान् ॥ ९॥ हीसुं० 'कथं लभेतास्य 'तुलां सुरदुर्यद्यस्य नामापि पिपर्ति कामान् ।
'तपस्विनोऽप्याभ्यवहारयन्यो द्विधा मृतास्वादजुषः पुपोष ॥१०॥ (१) केन प्रकारेण । (२) साम्यम् । (३) पूरयति । (४) अभिलाषान् । (५) तापसान् ।
(६) भोजयन् । (७) सुधा मोक्षश्च, तस्यास्वादो-भोगस्तं सेवन्ते इति ॥१०॥ हील० [कथं ल०] सुद्रुः साम्यं कथं प्राप्नुयात्, यदि अस्य नाम समीहितानि पूरयति । परं कल्पवृक्षनाम्ना
कोऽप्यर्थो न सरीसति । पुनर्यस्तपस्वि[नो भोजयंश्च] द्विधा सुधाया मोक्षस्य च स्वादधारिणः कृताः
॥१०॥ हीसुं० आसीत्सुधर्मा गणभृत्सु तेषु श्रीवर्धमानप्रभुपट्टधुर्यः ।
विहाय विश्वे "सुरभीतनु(नू )जं कः स्तात्परोप धुर्यपदावलम्बी ॥११॥ (१) सुधर्मस्वामी । (२) गणधरेषु । (३) महावीरपट्टधुरन्धरः । (४) वृषभम् । सुरभीशब्दः दीर्घ ईकारान्तोऽपि दृश्यते । यथा कल्पकिरणावल्यां स्वप्नाध्याये - "स्वप्ने मानवमृगपतितुरङ्गमातङ्गवृषभसुरभीभि"रिति । (५) त्यक्त्वा । (६) अन्यः । (७) धुरीणस्थानकाश्रयः
॥११॥ हील० तेषु सुधर्मास्वामी पट्टधारी अभूत् । जगति वृषभं त्यक्त्वा धुरन्धरः कः [स्तात् ॥११॥] हीसुं० यः पञ्चमोऽभूगणपुङ्गवानां कि 'पञ्चमी २स्वेन गति "यियासुः ।।
'यत्रोक्तिभिस्तीर्थकृतां दिदीपे शुक्तिव्रजे वारिमुचामिवाद्भिः ॥१२॥ (१) गणधरेन्द्राणाम् । (२) मोक्षलक्षणाम् । (३) आत्मना । (४) गन्तुमिच्छुः ।
(५) सुधर्मस्वामिनि । (६) महावीरवचनैः । (७) मेघपानीयैः ॥१२॥ हील० यः प०। यः सुधर्मा गणधारिणां मध्ये पञ्चमोऽभूत् । किम् ?। उत्प्रेक्ष्यते । आत्मना मुक्तिं गन्तुक
इव यत्रागमैर्दीप्यते । यथा मेघजलैः शुक्तिषु मौक्तिकीभूय दीप्यते ॥१२॥ हीसुं० 'सरस्वतीशालिलसज्जिनश्रीरंगाधमध्यो रसभासमानः ।
सिद्धान्त आस्ते यदुपज्ञमुद्या (द्य)दभङ्गभङ्गः “सरितामिवेशः ॥१३॥ (१) सरस्वत्या श्रुतदेवतया सर: प्रसरणं मुखेऽस्त्यस्यास्तत्रत्वेन शोभते इत्येवंशीलः । पक्षे
-नदीभिः दीप्यमाना तीर्थकृतां चतुस्त्रिंशदतिशयादिलक्ष्मीर्यत्र । पक्षे-स्फुरन्त्यौ कृष्णलक्ष्म्यौ 1. सूर्यस्य रश्मीनवलम्ब्य हीमु० । 2. इति श्री गौतमस्वामी हील० । 3. इति सुधर्मस्वामी[१] हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org