SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११० 'श्री हीरसुन्दर' महाकाव्यम् चरमोऽपि । (४) कर्दमाकलितकमलवदनः । हंस इव । (५) कीर्तिक्षीरसमुद्रे ॥४॥ हील० सिद्धा० सिद्धार्थराजसुतः । श्रीमहावीरश्चरमोऽपि सामान्यकेवलिनां मध्ये आद्योऽभूत् । यत्कीर्तिक्षीराब्धौ चन्द्रः । पङ्किलं कमलमास्ये यस्य तादृशो हंसस्तद्वद्भाति स्म ॥*४|| हीसुं० 'बाल्येऽपि 'हेमादिरकम्पि येन प्रभञ्जनेनेव 'निकेतकेतुः । श्रीद्वादशाङ्गी च यतः प्रवृत्ता गुरो गिरीणामिव 'जह्वकन्या ॥५॥ (१) जन्ममहोत्सवसमये जातमात्रेऽपि । (२) मेरुः । (३) चालितः । (४) वायुनेव । (५) गृहोपरिध्वजः । (६) महावीरात् । (७) प्रादुर्भूता । (८) हिमाचलात् । (९) गङ्गा ॥५॥ हील. बाल्येः । यथा वायुना गृहोपरिध्वजः कम्प्यते तद्वद्येन भगवता बाल्येऽपि मेरुः कम्पितः । यतः भगवतः सकाशात् गणिपिटकं प्रवृत्तम् । यथा हिमाद्रेर्गङ्गा प्रवृत्ता ॥५॥ हीसुं० एकादशासन्ग णधारिधुर्याः २श्रीइन्द्रभूतिप्रमुखा अमुष्य । ४आर्योपयामे "पुनराप्तमूर्ति रुदाः स्मरं हन्तुमिवेहमानाः ॥६॥ (१) गणधरवृषभाः । (२) गौतमाद्याः । (३) महावीरस्य । (४) पार्वतीविवाहे । (५) द्वितीयवारम् । (६) पूर्वशरीरापेक्षया लब्धशरीरम् । (७) एकादशापि रुद्रा इव । रुद्रा एकादशैवोच्यन्ते ॥६॥ हील० एका० । श्रीवीरस्य एकादशगणधरा बभूवुः । उत्प्रेक्ष्यते । पार्वतीपाणिग्रहे लब्धकायं स्मरं हन्तुं काङ्क्षन्तः रुद्राः ॥६॥ हीसुं० बभूव मुख्यो 'वसुभूतिसूनुस्तेषां गणीनामिह गौतमाह्वः । यो 'वक्रभावं न बभार पृथ्वी-सुतोऽपि नो "विष्णुपदावलम्बी ॥७॥ (१) प्रकृष्ट आदिमो वा । (२) गौतमः । (३) एकादशगणधराणाम् । (४) गौतमनामा । (५) कुटिलतां वक्रो मङ्गलश्च । तत्र त्वम् । (६) पृथ्व्या ब्राह्मण्या भूमेश्च । (७) नारायणचरणं गगनं वावलम्बते इत्येवंशीलः ॥७॥ हील० बभूव । तेषामाद्यो गौतमोऽभूत् । यः पृथ्व्याः ब्राह्मण्या क्षितेश्च सुतोऽपि वक्रतां न धत्ते स्म । "आरो वक्र लोहिताङ्गो मङ्गलोऽङ्गारकष्कु(: कु)ज "इति हैम्याम् । विष्णुपदमाकाशावलम्बी अपि न विष्णुभक्तः ॥७॥ हीसुं० यत्पाणिपद्मः स पुनर्भवोऽपि 'दत्ते नितानाम पुनर्भवं यत् । शिष्यीकृता येन ५भवं विहाय शिवं श्रयन्ते च तदत्र चित्रम् ॥८॥ (१) गौतमकरकमलम् । (२) नखयुक्तः । (३) प्रणतजनानाम् । (४) मोक्षम् । (५) संसारं ईश्वरं च । (६) मोक्षं शम्भुं च । (७) आश्चर्यम् ॥८॥ हील० यत्पा० । सह पुनर्भवैर्नखैर्वर्त्तते । तादृशः करो जनानां मोक्षं दत्ते । पुनर्येन शिष्यीकृता जना भवं -ईशं त्यक्त्वा शिवं-शम्भुं श्रयन्ते तच्चित्रम् । तत्त्वतस्तु संसारं मुक्त्वा मोक्षमाश्रयन्ते ॥८॥ 1. इति वीरजिनः हील । 2. ते जनानाम० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy