SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ एँ नमः ॥ अथ चतुर्थः सर्गः ॥ हीसुं० अथो पुरासन् भरते वृषाङ्कमुखाश्चतुर्विंशतितीर्थनाथाः । बाह्यान्यबाह्यानि 'तमांसि हन्तुं कृतद्विरूपा इव भानुमन्तः ॥१॥ (१) अथेति चतुर्थसर्गप्रारम्भः । (२) पूर्वं तृतीयचतुर्थारकयोः । (३) भरतक्षेत्रे । (४) ऋषभप्रमुखाः (५) अज्ञानानि पापानि वा । (६) निर्मितचतुर्विंशतिरूपा द्वादशसूर्या इव । द्वादशानां द्वित्वभावेन चतुर्विंशतिः स्यात् ॥१॥ हील० अथौ०। अथेति चतुर्थसर्गप्रारम्भे । पुरा पूर्वं तृतीयारकपर्यन्तचतुर्थारकमध्ये भरतनाम्नि क्षेत्रे ऋषभनाथप्रमुखाश्चतुर्विंशतिस्तीर्थकृतः आसन्नभूवन् । उत्प्रेक्ष्यते । बाह्यानि दृश्यमानान्यबाह्यानि जीवानामन्तरङ्गवर्तीनि तमांसि अन्धकाराणि पापानि वा व्यापादयितुं कृते द्वे रूपे यैस्तादृशा अंशुमन्तः ॥१॥ हीसुं० 'इक्ष्वाकुवंशाम्बुधिशीतभासां द्वाविंशतिस्तीर्थकृतां बभूव । यया 'तमष्प(: प)ङ्कम पास्य पन्थाः “प्राकाशि सिद्धेः शरदेव विश्वे ॥२॥ (१) ऋषभदेवस्य बाल्ये शक्रप्राभृतानीतेक्षुयष्टेरास्वादनाशयेन शक्रप्रतिष्ठापितेक्ष्वाकुवंश: स एव समुद्रस्तत्र चन्द्राणाम् । (२) जिनद्वाविंशत्या । (३) पापकर्दमः अज्ञानकर्दमम् । (४) निराकृत्य । (५) प्रकटीकृतः । (६) मोक्षस्य ॥२॥ हील० इक्ष्वा० । द्वाविंशतिजिनेन्द्रा इक्ष्वाकुकुले जाता इत्यर्थः । यया द्वाविंशत्या तमः-पङ्कं निराकृत्य जगति मोक्षमार्गः प्रकाशितः । यथा शरत्कालेन पकं विशोष्य पन्थाः प्रकटः क्रियते ॥२॥ हीसुं० बभूवतुर्ती भुवनप्रदीपौ 'जिनौ यदूनां पुनर'न्वये च । रथे २धूरीणाविव पुष्पदन्ता विवाभ्रमार्गे च भुजा विवाङ्गे ॥३॥ (१) मुनिसुव्रत-नेमिनाथौ । (२) यादवकुले । (३) धुरन्धरौ वृषभौ । (४) नभसि सूर्याचन्द्रमसौ । (५) शरीरे बाहू ॥३॥ हील० बभू० । एक: नेमिरन्यो मुनिसुव्रतश्च, द्वौ जिनौ यदुवंशे जातौ । यथा इन्द्रियायतने शरीरे उर्जस्वलौ दोर्दण्डौ ॥ ३॥ हीसुं० 'सिद्धार्थभूकान्तसुतो जिनानाम पश्चिमोऽजायत पश्चिमोऽपि । शशी 4बभौ पङ्किलपङ्कजास्यकादम्बवद्यस्य "यश:सुधाब्धौ ॥४॥ (१) सिद्धार्थराजाङ्गजः । (२) आद्यः । “अपश्चिमो विपश्चिता'"मिति चम्पूकथायाम् । (३) 1. पवाये हीमु० । 2. अरिष्टनेमिर्मुनिसुव्रतश्च स्फूर्ज जाविन्द्रियवेश्मनीव हीमु० । 3. इति जिनाः हील० । 4. व्यभात्पङ्कि० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy