SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ॥ १०७ (१) चलन्तम् । (२) कल्पतरुम् । (३) निजपुण्यातिशयम् । (४) मूर्तिमन्तम् । (५) निजगृहे । (६) भाग्येन ।(७) वातरहितस्य स्थिरस्य कमलस्य तुल्यया ।(८) सादरमवलोक्य ॥१२९॥ हील० तं जङ्गमं० । चलन्तं कल्पवृक्षमिव । उतात्मगृहे आगतं मूर्तिमन्तं पुण्यौघमिव तं बन्धुं निर्वातनि:कम्पकजसदृशया दृष्ट्या दृष्ट्वा विमला हृदयमध्ये जहर्ष ॥ १३०।। हीसुं० 'कादम्बिनीव सलिलैः 'सुरशैलशृङ्गं हर्षाश्रुभिः स्वसहजं स्न पन्त्यमन्दम् । पसंबिभ्रतं कनककेतककान्तकायं तं "स्वागतादि भगिनी परिपृच्छति स्म ॥१३०॥ (१) मेघमाला ( २ ) मेरुशिखरम् । (३) निजबान्धवम् । (४) बहु । (५) धारयन्तम् । (६) स्वर्णकेतकवन्मनोज्ञाङ्गम् । (७) सुखेनागतं कुशलप्रश्नमस्तीत्यादिप्रश्नम् ॥१३०॥ हील० काद० । यथा मेघमाला जलैर्मेरुशृङ्ग क्षालयति तद्वद्हर्षाश्रुभिः स्नपयन्ती भगिनी सुवर्णसदृशकायं बिभ्रतं तं स्वभ्रातरं कुशलादि पृच्छति स्म ॥१३१॥ हीसं० विज्ञातपूर्वजननीजनकप्रवृत्तेः प्रेम्णा 'निगद्य कुशलादिकमात्मजामेः । विद्याभृतां 'कुमरवत्कलधौतकान्तं वैताढ्यशृङ्गमयमासनम ध्युवास॥१३१॥ (१) पूर्वं कुमारागमनात् प्राक्ज्ञाताऽवबुद्धा पित्रोर्वार्ता यया । (२) कथयित्वा । (३) निजभगिन्याः (४) विद्याधरकुमार इव । (५) कलधौतं-स्वर्णरुप्ययोः, तेन मनोहरम् । (६) हीरकुमारः । (७) आश्रयति स्म ॥ १३१॥ हील० विज्ञा०। ज्ञातजननीजनकप्रवृत्तेः स्वजामेः कुशलादिकं निगद्य स रजतेन हेमेन वा घटितं विष्टरमधिवसति स्म । यथा विद्याधरकुमारः रजतमयं वैताढ्यशृङ्गमधिवसति ॥१३२॥ हीसुं० अनेन 'गोष्ठीमनुतिष्ठतात्मजामेर्मनोव्या हतिवैदुषीभिः । __५अनन्यवृत्ति क्रियते स्म विज्ञै परसातिरेकै रसिकस्य यद्वत् ॥१३२॥ (१) हीरकुमारेण । (२) वार्ताम् । (३) कुर्वता । (४) वचनवैचित्रीभिः । (५) न विद्यते अन्यत्रापरस्मिन्स्थाने वर्त्तनं यत्र तदेकतानम् । (६) शृङ्गारादिरसानामतिशयैः । (७) रसवतः। (८) यथा ॥१३२॥ हील० अने०। गोष्ठी कुर्वतानेन व्याहारो-भाषितवचनं तस्य चातुरीभिः आत्मभगिन्याः मनो नास्ति अन्यस्मिन्वृत्तिर्यस्य तदेकतानं क्रियते स्म । यथा विज्ञै रसै रसिकमनोऽनन्यव्यापारं क्रियते ॥१३३॥ हीसुं० पदे पदे यत्पुर कौतुकानि निरीक्षमाणः क्षणदाकरास्यः । व्यधत्त वासं हृदये 'मनस्विनां निजैर्गुणैर्हार इवैष हीरः ॥१३३॥ 1. ०पयत्य० हीमु० । 2. निजैर्गुणैर्हार इवैष हीरो व्यधत्त वासं हृदये मनस्विनाम् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy