________________
१०६
'श्री हीरसुन्दर' महाकाव्यम्' हील० कृत्वा० । कृत्वो० । पृथ्वीमण्डले विलासं कृत्वा स्वर्लोके गन्तुं सोत्कण्ठयोः । पुनः समाधि
भजतोः स्वर्वधूनां दृष्टिपातं गतयोष्पि(: पि)त्रोः दानजलाञ्जलिं दत्वा । पुनर्वंशोद्भूतनरैः । साकं चिरकालेन शोकं त्यक्त्वा कस्मिन्नपि समयेऽसौ कुमारो विमलां स्वभगिनी मिलितुमुत्कण्ठितो
जज्ञे । यथा इन्द्रपुत्रः जयन्ती मिलितुमुत्को भवति ।।१२५ -१२६।। हीसुं० गन्तुं ततः स्पृहयता प्रति पत्तनं स्व-भृत्येन तेन सतुरङ्गयुगः शताङ्गः । ५आनाप्यते स्म नमुचेर्दमनेव( न) जम्बू-द्वीपविमानमिव पालकनिजरेण
॥१२६॥ (१) वाञ्छता । (२) निजसेवकेन । (३) अश्वयुगलयुतः । (४) रथः । (५) आनायितः ।
(६) इन्द्रेण । (७) पालकनामदेवेन ॥१२६॥ हील० गन्तुं०। ततो जामिमिलनोत्कण्ठानन्तरं पत्तनं यातुकेन तेन स्वभृत्येन तुरङ्गयुग्मसहितः शताङ्ग आनाय्यते
स्म । यथा जम्बूद्वीपे गन्तुकेनेन्द्रेण पालकसुरेण तन्नाम्ना विमानमानाय्यते ॥१२७॥ हीसुं० तं पारियानिकमसावधिरुह्य भूमी-मार्गे 'नभस्वदतिपातिरयाश्ववाह्यम् ।
हैमं शताङ्गामिव सारथिना सनाथं "पाथोज-बन्धुर मराध्वनि सम्प्रतस्थे ॥१२७॥ (१) अध्वरथः पारियानिकः । (२) पवनमतिक्रामतीत्येवं शीलो नभस्वदतिपाती वातादप्यधिको वेगो ययोस्तादृशाभ्यामश्वाभ्यां वहनयोग्यम् । (३) सुवर्णरथम् । (४) संयुतम् । (५)
सूर्यः । (६) गगनमार्गे । (७) प्रचलति ॥१२७॥ हील. तं पारि० । असौ अध्वरथं वायुवेगाश्ववाह्यमारुह्य प्रतस्थे । यथा सौवर्णरथं सारथियुक्तं आश्रित्य
सूर्यः गगने प्रतिष्ठते ॥१२८ ॥ हीसुं० कालं कियन्तमु दयान्तरितं तपस्या-साम्राज्यसङ्ग्रहविधौ प्रविलम्बमानः ।
सम्प्राप्य पत्तनमसौ मुदितः स्वजामे-५श्चौलुक्यवद् भवनभूमिमलञ्चकार ॥१२८॥ (१)कियत्प्रमाणमस्येति । (२) सूरिपदलक्षणमहोदयो व्यवधानं प्राप्तो यत्र । (३) दीक्षा एव साम्राज्यस्य उपादानप्रकारे । (४) विलम्बं कालक्षेपं कुर्वन् । (५) कुमारपाल इव । (६)
भगिनीगृहभुवं भूषयति स्म ॥१२८॥ . हील० कालं० । दीक्षाग्रहणे कियन्तं कालं सूरिपदान्तरितं विलम्बमानः । स पत्तनं प्राप्य मुदितः सन्
भग(गि)नीगृहभुवमलङ्करुते स्म । यथा कुमारपाल: राज्यग्रहणे विलम्बमानः स्वजामेहे स्थितः
॥१२९॥ हीसुं० तं 'जङ्गमं 'त्रिदशसालमिव स्वपुण्य-प्राग्भारम ङ्गिनमिवागत'मात्मधाम्नि ।
'दृष्टया निवातसरसीजसगर्भया स्वं बन्धुं निपीय विमला मुमुदे हृदन्तः । १२९॥ 1. मथ हीमु० । 2. जपाणिरिव नाकिपथे प्रतस्थे हीमु० । ३. मृतागत० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org