________________
तृतीयः सर्गः ॥
१०३
(१) वृक्षशाखानां शिखराण्यग्राणि तेषां मध्येषु । ( २ ) त्यक्तुमिच्छ्वः । (३) ऊर्ध्वं बध्नन्ति स्म । स्वं पाशयन्ति स्म ॥११४॥
० यत्पाद० । कुमारचरणाङ्गुलिभिः स्वशोभया पराभवस्थानं प्रापिताः प्रवाला द्रुमशिखराग्रान्तरेषु आत्मानामूर्ध्वं बबन्धुः । उत्प्रेक्ष्यते । कायं त (त्य)क्तुमिच्छवः ॥११५॥
हीसुं० 'कामद्विपेङ्कुश इवोद्भवितायमेत' - त्का' माङ्कुशैषिक ( : कि) मिति सूचयति स्म वेधाः । रत्नं यदेष भुवि सूरिभरेषु भावी रत्नश्रियं किमु पुन र्निदधे स तेषु ॥११५॥
हील०
( १ ) मदनमत्तगजे । ( २ ) प्रकटीभविष्यति । ( ३ ) नखैः । ( ४ ) सूरीन्द्रश्रेणीषु मणिरिव भावी । (५) स्थापयामास । ( ६ ) नखेषु ॥ ११५ ॥
काम। स्मरे सृणिवत्प्रादुर्भविष्यति । इत्येव नखैर्वेधाः सूचयति स्म । पुनर्न्यक्षसूरिषु नगीनो भावी, इत्येव स वेधाः नखेषु रत्नश्रियं दधौ ॥ * ११६ ॥
हीसुं० 'यन्मूर्त्तिदीधितिझरेषु किमु प्ररोहा रोमाणि कामपि रमां कलयांबभूवुः । दृग्विधा वयमिहैव न 'चाऽपरत्र वक्तुं गुणैष्कि ( : कि) मिति यत्र कृताः स्वरेखाः
॥११६॥
( १ ) कुमारकायकान्तिनिर्झरेषु । (२) अङ्कुरा इव । ( ३ ) अद्वैतमाहात्म्य: । ( ४ ) कुमारे (५) अपरस्मिन्स्थाने न स्मः ॥ ११६ ॥
हील० यन्मू० । यस्य शरीरस्य कान्तिनिज्झरिषु अङ्करा इव लोमाणि (नि) अपूर्वशोभां धारयन्ति स्म । उत्प्रेक्ष्यते । औदार्यादिगुणैः स्वा: स्वा: सरूपाणामेकशेषे स्वाः सूक्ष्मा रेखाः कृताः । यदि (दी) - दृग्विधा वयमिहैव स्मः वर्तामहे । अपरस्मिन्स्थाने सर्वथापि न स्मः वक्तुम् ||११७||
हीसुं० स्कन्धोपधेः 'ककुदढौकनकं विधाय यस्मात्शिशोर्गतिरशिक्षि ककुद्मतेव । अभ्यस्यते गतिरिवास्य गतानुकार - कामेन विन्ध्यविपिनेष्वपि 'हास्तिकेन ॥११७॥ (१) ककुदं नैचिकं शिरस्तस्योपदाम् । ( २ ) वृषभेण । ( ३ ) अभ्यासः क्रियते । ( ४ ) गमनस्य सादृश्याभिलाषेण । (५) विन्ध्याचलगह्वरेषु । ( ६ ) हस्तिनां समूहेन ॥११७॥ हील० स्कन्धो० । अंसमिषात् ककुदप्राभृतं कृत्वा वृषभेन (ण) हीरकुमाराद्गति: शिक्षिता । पुनर्हस्तिसमूहेन अस्य गमनस्य सदृशीभवनं तत्राभिलाषुकेन (ण) विन्ध्यगिरिगह्वरेषु गमनं शिक्ष्यते वा ॥११८॥ हीसुं० १लिप्ता द्रवैरिव विलीनहिरण्यराशेः सङ्कल्पितेव 'नवगन्ध फलीदलैर्वा । किं 'रोचनाभीरथवा रचिता 'स्मिताब्ज- गब्र्भैरिवाथ घटिता 'स्य तनुश्च' कासे ॥११८॥
1. व कामा० हीमु० । 2. यन्त्र हीमु० । स पाठोऽशुद्धः प्रतिभाति ॥ 3. ०धकली० हीमु० । स चाशुद्धः पाठः 4. ०काशे हीमु० । 5. इति हीरकुमारसर्वाङ्गवर्णनम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org