________________
१०२
'श्री हीरसुन्दर' महाकाव्यम्
हृदः पुनर्वक्षःस्थलेनेर्ष्यया कटिर्विशाला भूत् ॥*१११॥
हीसुं० 'कार्कश्यसंहृतिलघूकृतहस्तिहस्ता- वूरू कृताविव शिशोर्न लिनासनेन । स्तम्भोपमो जनमतावसथे स भावी स्तम्भोपमां किमिति तस्य बिभर्ति जङ्गा
॥१११॥
(१) कठिनतायाः संहरणेन कृत्वा अल्पौ ह्रस्वौ कृतौ करिकरौ । ( २ ) विधात्रा । (३) जिनशासनरूपसद्मनि तद्भारधारणे स्तम्भतुल्यो भावी । "वज्रस्तम्भाविवैते ' ' इति जिनशतके ( ४ ) स्तम्भसादृश्यं जङ्घायाः ॥ १११ ॥
हील० कार्कश्यापनयनेन ह्रस्वौ कृतौ हस्तिहस्तौ । उत्प्रेक्ष्यते । धात्रा शिशोः सक्थिनी कृतौ पुनरर्हच्छासनसद्मनि स्थम्भतुल्यत्वादस्य जङ्घा स्थम्भसादृश्यं दधौ ॥ * ११२ ॥
हीसुं० 'स्पर्द्धादयान्निजविवृद्धिकृतौ यदूरू जङ्घे पुनः सरसिजन्मभुवा विभाव्य । तद्युग्मविग्रहनिषेधविधिप्रभुष्णु-सीमाकरं विरचितं किमु जानुयुग्मम् ॥ ११२ ॥
( १ ) परस्परं स्पर्द्धायाः प्रादुर्भावादात्मनो विवृद्धि कुर्वत इति । ( २ ) धात्रा । ( ३ ) दृष्ट्वा । ( ४ ) तस्य कुमारस्य उरुजङ्घायुगलयोः क्लेशनिवारणप्रकारे समर्थमत एव विभागविधायकम् । (५) कृतम् । ११२ ॥
हील. स्पर्द्धा ० । संहर्षादन्योन्यं वृद्धि कृतौ यस्य उरू पुनर्ज दृष्ट्वा ब्रह्मणा तयोर्द्वन्द्वयोर्विग्रहनिषेधकं सीमाकरम् । उत्प्रेक्ष्यते । जानुयुग्मं निष्पादितम् ॥११३*॥
हीसुं० 'शुश्रूषया सनतयानिशमा प्रसादा-ल्लब्ध्वा प्रसन्नमनसो वरमात्मयोनेः । “विश्वाङ्ककारविजयप्रभविष्णुलक्ष्मि स्मेराम्बुजन्म किमु ' यत्पदताम' वाप ॥ ११३ ॥
(१) सेवकतया । ( २ ) पद्मस्यासनत्वेन । ( ३ ) प्रसादं मर्यादीकृत्य । ( ४ ) विधातुः । ( ५ ) जगति ये स्वविभवप्रतिमल्लास्तेषां विजये समर्थशोभाभृत् । ( ६ ) पद्मम् । (७) यस्य चरणकमलभावम् । (८) लेभे ॥११३॥
हील० शुश्रू० । निरन्तरं विष्टरभावेन प्रसादसमयं यावत्सेवया प्रसन्नात् आत्मयोनेः सकाशात् वरं प्राप्य । किमुत्प्रेक्ष्यते । विकचकजं कुमारस्य चरणत्वं पादावतारं लभते स्म । किंभूतं स्मेराम्बुजन्म ? 1 जगत्सु येऽङ्ककाराः प्रतिमल्लास्तेषां विजये प्रभविष्णुं समर्था लक्ष्मीर्यस्य तत्तादृशम् । “शुश्रूषाराधनोपास्तिर्वरिवस्यापरिष्टयः" इति हैम्यामित्यवबोद्ध्यम् ॥ ११४॥
हीसुं० यत्पादपङ्कजयुगाङ्गुलिभिः स्वकीय-लक्ष्म्या पराभवपदं गमिताः प्रवालाः। दुःखादिव 'दुमशिखाशिखरान्तरेषु ति`त्यक्षवस्तनुलतां निज मुद्बबन्धुः ॥११४॥
1. स्थम्भो० हीमु० । 2. स्थम्भो० हीमु० । 3. तद्द्वन्द्व० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org