________________
तृतीयः सर्गः ॥
१०१ बाहुरेव मूलाच्छाखावधिप्रदेशस्तद्भाजिनः । करवृक्षस्य किशलयै रम्याः शाखाः ॥१०७|| हीसुं० 'जानुस्पृशौ शिशुभुजौ 'विनियन्त्रणाय पाशाविवाब्धिदुहितुस्त रलाशयायाः ।
हस्तौ "समस्तकजराजतयाप्यमुष्य धात्राऽक्षतैरिव यवैः सम पूजिषाताम् ॥१०७।। (१) जानुप्रलम्बौ । (२) बन्धनाय । (३) लक्ष्म्याः । (४) चपलस्वभावायाः । (५) सर्वेषां
पद्मानां राजत्वेन तत्सेव्यत्वादाकृत्या । (६) अर्चितौ ॥१०७॥ हील० जानु० । उरुपर्वयावत्प्रलम्बौ भूजावभूताम् । उत्प्रेक्ष्यते । चञ्चलाया लक्ष्म्या बन्धनाया पाशौ ।
पुनर्धात्रा हस्तौ सकलकमलराजत्वेनाखण्डैर्यवैर्चिताविव ॥१०८।। हीसुं० 'वक्षःशिलाकलितमञ्जुलजातरूपो 'नक्षत्रभूषिततनुश्च नभोगयुक्तः ।
"स्वःशाखिरुङ्महिमधीरिमराजमानः शावस्सुपर्वशिखरीव पुपोष भूषाम् ॥१०८॥ (१) हृदयरूपशिलया युतस्तथा रम्यं स्वर्णं उत्पन्नं रूपं यस्य । (२) न निषेधे, क्षत्रत्वेन राजन्यत्वेन शोभितांडाः । वणिग्जातित्वात् नक्षत्रैोतिभिः शोभितवपुः । (३) न नैव भोगेन वैषयिकसुखेन युतो बालत्वात्, विद्याधरैर्देवैर्वा युक्तः । (४) कल्पद्रुवत् तेषां च
कान्तिर्यत्र माहात्म्येन धैर्येन(ण) शोभमानः । (५) मेरुरिव ॥१०८॥ हील० वक्ष० । हृदयमेव शिला तया युतस्तथोत्पन्नं रूपं यत्र स पुनर्नो क्षत्रत्वेन वणिग्जातित्वात्
क्षत्रैर्वालङ्कृतकायः पुनर्न भोगैविषयैविद्याधरैर्वा चेष्टितः । कल्पवृक्षानां (णां)तद्वद्वा रुक् यस्य । पुनर्महिम्नाऽग्रे भविष्यता भाविनि भूतोपचारात् धैर्यण च शोभितो बालो मेरुरिवाभां बिभर्ति स्म
॥१०९॥ हीसुं० 'प्रामाण्यमस्य वहतो महतां सदस्य-प्रामाण्यमाश्रयदुरस्तदिहास्ति चित्रम् ।
श्रीवत्स उल्लसति तस्य पुनः स 'वक्षः-स्थायी गभीरिम विभावनकौतुकीव॥१०९।। (१) यथार्थवादितां मुख्यतां च । (२) सभायाम् । (३) अप्रमाणतां विशालताम् । (४)
कुमारस्य । (५) हृदये वसति । (६) गाम्भीर्यस्य वीक्षणे कुतुकवानिव ॥१०९॥ हील० अस्य हृदयं प्रमाणातीतमित्यर्थः ।।* ११०|| हीसुं० 'सान्द्रीभवत्तनुविभाभरनिर्झरिण्यां सावर्त्तशोण इव नाभिरमुष्य रेजे ।
वक्षःस्थलेन 'विपुलेन "सहाभ्यसूया-माबिभ्रतीव कटिरप्य[भ]वद्विशाला॥११०॥ (१) निबिडां जायमानः शरीरप्रभासमूह एव नदी, तस्याम् । (२) जलावर्त्तयुक्तहूद इव ।
(३) हृदयेन । (४) विशालेन । (५) ईर्ष्याम् ॥११०॥ हील० सान्द्री० । अस्य नाभिः शुशुभे । उत्प्रेक्ष्यते । बहुलो यः कायकान्तिभरः स एव नदी तस्य सावर्तो 1. विलोकन० हीमु० । 2. रिण्याः हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org