SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०० 'श्री हीरसुन्दर' महाकाव्यम् प्रसिद्धिः । रेखा(?) । (२) चक्रे ॥१०३॥ हील० निःशेष० । समग्रपृथ्वीपातलस्वर्गाणां त्रयेऽपि विस्तरणशीलैर्यशोभिर्महत्सु रेखा भाविनी । इति कारणादस्य कण्ठे रेखात्रयं विधिः कृतवान् ॥१०४।। हीसं० भावी यदेष 'वषवज्जिनधर्मधुर्यः स्कन्धोऽप्यभूत्किमिति तत्ककुदोपमेयः । अर्भ: "पुरा भवति येन "युगप्रधानो जज्ञेऽस्य बाहुरपि तेन युगप्रधानः ॥१०४॥ (१) वृषभ इव । (२) अर्हत्प्रणीतधर्मे धुरन्धरः । (३) तस्य वृषभस्य ककुदेन स्कन्धेन उपमातुं योग्यः । नैचिकं शिरो वा तत्तुल्यः (?) (४) पुरा भवत्यग्रे भविष्यति । “पुरा योगे भविष्यदर्थे वर्तमाना"। (५) युगे कलिकाले विशिष्टातिशयैः प्रधानो मुख्यः । (६) आजानुबाहुत्वात् । (७) युगवद्धूसर इव प्रधानः ॥१०४॥ हील० भावी०। वृषभ इव धर्मधुर्यत्वादस्य स्कन्धः वृषस्यस(स्यांस)कूटेनोपमातुं योग्योऽभूत् । पुनरर्भः युगे कलिकाले प्रधानः पुरा भवति भविष्यति । "यावत्पुरानिपातयोर्योगे लङ्' आभ्यां योगे भविष्यकाले वर्तमाना स्यादिति सिद्धान्तकौमुद्याम् । इत्यस्य बाहुबूंसरोपमेयो जातः ।।१०५|| हीसुं० उद्दामदुर्गतिपुरे ऽग्नलतांगमी य-रत्तद्दोरितीव लभतेऽर्गलयोपमानम् । यस्ये भशङ्खमकरान्कलयन्प्रवाल-शाली पुनः "श्रियमसूत शयः “समुद्रः ॥१०५॥ (१) बहुजनभीतिकरत्वात् उत्कटमुच्छृङ्खलं यत्कुगतिपुरं तत्र परिघभावमयं गमिष्यति । ये जना अमुं सेविष्यन्ते तान् दुर्गतिं गन्तुं न दास्यति । ततः इदं विशेषणम् । (२) कुमारभुजः (३) अर्गलासदृशो बभूव । (४) गज-कम्बु-मकरान् दधत् विद्रुमैः पल्लववच्च शालते इत्येवंशीलः । (५) शोभां कमलां च । (६) जनयति स्म । (७) शयः पाणि: । (८) सहमुद्रया साक्षराङ्गुलीयकेन वर्त्तते यः । पक्षे सागरः ॥१०५॥ हील० उद्दा० । पूर्वार्द्ध सुगमम् । पुना रेखाकारीभूतान् गजशङ्खमकरान् दधन् । अत एव समुद्रः सहोर्मिकया वर्त्तते । तादृशः पाणिः शोभां लक्ष्मी अजीजनत् ।।१०६।। हीसुं० तस्य 'स्फुरद्युतिपयष्य(: प)रिपूर्णबाहु-मूलालवालविलसद्भुजगण्डिभाजः । रेजुः शयावनिरुहोऽङ्गुलयोऽनुशाखाष्का(: का)माङ्कुशैष्कि (: किसलयैरिव शालमानाः ॥१०६॥ (१) विस्तरत्कान्तय एव जलानि तैष्य(:प)रिपूरितं बाहोर्भुजस्य मूलं कोटर: स एव स्थानकं तत्र विलसन्प्रकटीभवन्बाहुरेव गण्डिर्मूलात् शाखावधिप्रदेशस्तं भजतीति । (२) हस्तदुमस्य (३) नखैः । (४) पल्लवैः ॥१०६॥ हील० तस्य० । तदङ्गलयो रेजुः । उत्प्रेक्ष्यते । कान्तिजलपूर्णं यद्वाहुमूलं तदेवालवालं तत्र विलसन्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy