________________
तृतीयः सर्गः ॥
निर्मलवत्ता ॥९९॥ हील० पू० । यदयं गुर्वादिषु सरागो भावीतिकारणात्तज्जी(ज्जि)ह्वया रक्तीभूतं पुनर्निर्मलचित्तत्त्वा
देतद्दन्तैर्निर्मलीभूतम् ।।*१००॥ हीसुं० 'रक्ताङ्कपल्लवमुखान्द्विषतो जिगीषु-र्धत्तेऽसिकं "किमधरः स विधेऽदसीय:६ ।
भावी शिशु वि यदेष सुवृत्तशाली भेजे तदस्य "चिबुकोऽपि सुवृत्तभावम्॥१००॥ (१) विद्रुमकिसलयप्रमुखान् । (२) रिपून् । (३) जेतुमिच्छुः । (४) अपराधःप्रदेशोऽसिकः । पक्षे असिस्तरवारिरेवासिकः 'स्वार्थे कः', तम् । (५) पार्वे । (६) कुमारसम्बन्धी ओष्ठः । (७) शोभनाचारेण शालते राजते इत्येवंशीलः । (८) वदनाधः कश्चित्प्रदेशविशेषः
यत्र निम्नभागो भवेत् ॥१०॥ हील० रक्ताङ्कान् प्रवालादीन् जेतुकोऽधरः । असिरेवासिकस्तं खड्गं धत्ते । अन्योऽपि रिपून्विजेतुं करवालं
कलयति । पुनरसौ शोभनाचारवान् भावीतीवास्यासिकाधः प्रदेशोऽपि शोभनाशयं सदाचरतां वास्तवार्थे
तु शोभनवर्तुलतां भेजे ॥१०१॥ हीसु० द्वात्रिंशताजनि रदैरपि लक्षणानि' द्वात्रिंशदा'कलयतः शिशुवासवस्य ।
'पीयूषवर्षिसितरोचिरसूययान्त-र्वाग्भिः सुधामिव ‘ववर्षमुखं तदीयम् ॥१०१॥ (१) करचरणयोश्छत्रचामरादीनि द्वात्रिंशन्मितानि लक्षणानि । (२) बिभ्रतः । (३) कुमारस्य । (४) दन्तैरपि द्वात्रिंशता जातम् । (५) अमृतवर्षणशीलस्य चन्द्रस्येjया । (६) वाणी
द्वारा । (७) अमृतम् । (८) वर्षति स्म ॥१०१॥ हील० द्वात्रिंशल्लक्षणवतस्तस्य द्वात्रिंशद्दन्तैर्जातम् । पुनस्तन्मुखं वाणीभिरमृतं वर्षति स्म । उत्प्रेक्ष्यते ।
अन्तश्चित्तेऽमृतवर्षिणः सितरोचिषश्चन्द्रस्य ईर्ष्णया इव सुधामवर्षत् ।।१०२।। हीसुं० उद्धृत्यकण्टकगणान्किमु 'वारिजन्म किं वात्मदर्शमपहृत्य विचेतनत्वम् ।
"संतक्ष्य लक्ष्मशितिमानमुतामृतांशुं “राजीवभूरकृत हीरकुमारवक्त्रम् ॥१०२॥ (१) कर्षयित्वा (२) कमलम् । (३) दर्पणम् । (४) निश्थे त ]नतां हत्वा । (५)
तनूकृत्य । (६) लाञ्छनकृष्णताम् । (७) चन्द्रम् । (८) विधाता ॥१०२॥ हील० उद्धृत्य० । कण्टकानिष्कास्य कजं गृहीत्वा वा दर्पणं सचेतनं गृहीत्वा च निरङ्कमृगाङ्कमादाय ब्रह्मा
हीरकुमारवक्त्रं रचयामास ।।१०३।। हीसु० निःशेषभूवलयकुण्डलिवेश्मनाकि-लोकत्रिके प्रसमरैर्यशसां विलासैः ।
रेखा भविष्यति महत्सु यदस्य कण्ठे रेखात्रिकं किमिति निर्मितवान्विधाता ॥१०३॥
(१) समग्रभूमण्डल-पाताल-स्वर्गाणां त्रये एतस्मात्पर: कोप्येतादृग्गुणकलितस्त्रिभुवने नास्तीति 1. इति मुखम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org