SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् (३) सभायामुपविशनवेदिकेव । (४) सरस्वतीदेव्याः । (५) हीरकुमारवदनकमलरूपे वसनार्थं गृहे ॥१५॥ हील. रक्ता० । विद्रुमपद्मरागमणयः किशलयास्तेषां रक्तत्वतस्करः ओष्ठः शोभा व्याप्नोति । उत्प्रेक्ष्यते । सरस्वत्या मुखगृहे वेदिकेव ॥९६।। हीसुं० अभ्युद्गतैर्मुखखनेरिव 'वज्ररत्नै-दन्तैरदीप्यत कुमारपुरन्दरस्य । वक्त्राब्जधाम्न इव वा श्रुतदेवतायाः “सेवासुखानुभवनागतगौरपत्रैः ॥१६॥ (१) प्रकटितैः । (२) वदनरूपवज्राकरात् । (३) हीरकनाममणिभिः । (४) वदनकमलमेव गृहं यस्याः (५) सेवया कृत्वा सुखं प्राप्तुं समेतैः हंसैः ॥१६॥ हील० दन्तैर्दीप्यते स्म । उत्प्रेक्ष्यते । वदनाकरादुद्गतैहीरकैरिव । वाथवा वक्त्रगृहे स्थितायाः सरस्वत्याः सेवायाः अनुभवार्थं आगतैहँसैः ॥९७।। हीसुं० बिम्बाधरे निपतिताभिरभासि यस्य निर्दूत मौक्तिकशुचिद्विजचन्द्रिकाभिः । ___ क्लृप्तेन्दुदर्पणपयोजजये कृताभि- भी भुवेव सुम वृष्टिभिरेत दास्ये ॥१७॥ (१) बिम्बस्य गोह्नकस्य तुल्ये अधरे । (२) उत्तेजितमुक्ताफलवद्विशदाभिर्दशनकान्तिभिः । (३) कुमारवक्त्रेण यः कृतश्चन्द्रादर्शकमलानां विजयस्तत्र । तस्मिन् (स)मये इत्यर्थः । (४) धात्रा । (५) पुष्पवृष्टिभिः । (६) कुमारमुखोपरि ॥१७॥ हील० बिम्बा० । रक्तोष्ठे पतिताभिर्मुक्तावदुज्ज्वलाभिर्दन्तज्योत्स्नाभिर्व्याप्तम् । उत्प्रेक्ष्यते । दर्पणादीनां जये कृते सति धात्रैतन्मुखे पुष्पवृष्टिः कृता ।।९८॥ हीसुं० पूर्णामृतैररुणरत्नमनोज्ञमध्या पतीभवद्विजविराजिसवेशदेशा। यस्याननान्तरनिकेतनवाक्त्रिदश्या वापीव खेलनकृते रसना बभासे ॥९८॥ (१) भृता पद्मरागै रचितत्वान्मनोहरमन्तरालं यस्याः । (२) श्रेण्या जायमानैर्द्विजैर्दशनैः विहङ्गैरर्थान्मरालैः शोभितः समीपभागो यस्याः।(३) वदनमध्ये गृहं यस्यास्तादृश्या: सरस्वत्याः ॥९८॥ हील. पूर्णाः । यज्जी(ज्जि)ह्वा रेजे । उत्प्रेक्ष्यते । मुखमध्ये निवासिन्यास्सरस्वत्या जलकेलिकृते अमृतैर्जलैर्वा पूर्णा रक्तरत्नघटितमध्या पुनः श्रेणीभवद्भिर्दन्तैः पक्षिभिर्वा शोभितः समीपदेशो यस्यास्तादृशी वापी ॥३८॥ हीसुं० पूज्येषु रञ्जि-तमना यदसौ कुमार-स्तस्य स्म रज्यत इतीव रसज्ञयापि । "शुद्धाशयस्य दशनैरपि धार्यते स्म श्रीमत्कुमारवृषभस्य 'विशुद्धिमत्ता ॥९९॥ (१) गुर्वादिषु । (२) रागयुक्तचित्तः । (३) जिह्वया । (४) निर्मलहृदयस्य । (५) 1. निर्धात० । हीमु० । 2. रङ्गित० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy