SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ॥ ९७ (४) ब्रह्मा। (५) जगति प्रदीपस्य तुस्य । (६) कज्जलध्वजकलिकासाम्यम् ॥११॥ हील० मषेलाञ्छनमिव शाकिन्यादिभयवारणार्थं ब्रह्मा कुरलं चकार । अग्रे सुगमम् ॥९२।।। हीसुं० चापल्यकेलिकलिते २असिताशये य-नेत्रे मिथः सदृशवैभवभाजिनी तत् । मा "दुह्यतां 'कजभुवेति तदन्तराले नासानिभेन विदधे किमु सीमदण्डः ॥९२॥ (१) चञ्चलतायाः क्रीडायां चटुलतया क्रीडने वा ललिते । श्रृङ्गारवती तत्र रसिके इत्यर्थः। (२) श्यामहृदये । (३) तुल्यलक्ष्मीधारिणी । (४) परस्परं द्रोहं मा कुरुताम् । (५) विधात्रा । (६) चक्षुषोर्मध्ये । (७) विभागदण्डः ॥१२॥ हील० चपले पुनः श्याममध्ये पुनः सदृशे अस्य नेत्रे वर्तेते । तस्मान्मा द्रोहं कुर्वाताम् इति कारणादेव ब्रह्मणा तयोर्मध्ये नासिका । उत्प्रेक्ष्यते । विभागयष्टिः कृत इव ॥९३।। हीसुं० स्थाणो: शिरोनिवसनानशनाम्बुपानं 'संतप्य दुस्तपतपो मणिदर्पणेन । प्रापे परं "जनुरिवेदम"गण्यपुण्य-सम्प्रापणीयम दसीयकपोलरूपम् ॥१३॥ (१) स्थाणुरीश्वरः कीलकश्च तन्मूर्धनि वसनं तथा न विद्यते आहारजलपाने यत्र । (२) सम्यक् त्रिधा तप्त्वा ।(३) लब्धम् । (४) अन्य जन्म । (५) प्रमातुमशक्येन सुकृतेन प्राप्तुं योग्यम् । (६) कुमारकपोलस्य रूपं यस्य ॥१३॥ हील० स्थाणो० । कीलकाग्रे वसनं, पुनरशनपानरहितं तपस्तप्त्वा रत्नादर्शेन अस्य कपोलरूपं प्रत्यक्षलक्ष्यं असङ्ख्यपुण्येन लब्धं, द्वितीयं जन्म प्राप्तमिव ॥९४।। हीसुं० यस्य 'प्रशस्ययशसः श्रुतिपाशमध्य-निष्पातिनक्रशुकचञ्चपुटात्कथञ्चित् । बिम्बीफलं विगलितं स्खलितं च वक्त्र-पद्मोदरे किमु परदच्छदनीबभूव ॥९४॥ (१) श्लाघनीयकीर्तिः । (२) कर्णावेव पाशौ तयोर्मध्ये निपतनशीलस्य नासिकारूपकीरस्य वक्त्रपुटात् । (३) केनापि प्रकारेण । (४)वक्त्रोदरे स्थितम् । (५) अधरो जातः ॥१४॥ हील० यस्य० । बिम्बीफलं गोलकं यस्य कुमारस्य रदनछ(च्छ)दनीबभूव । उत्प्रेक्ष्यते । प्रशस्तकीर्तेर्यत्कुमारस्य कर्णावेव पाशौ बन्धनग्रन्थी तयोर्मध्ये निष्पातिनो निष्पतनशीलस्य नक्रशुकस्य नासिकारूपकीरस्य चञ्चुपुटात् शृपाटिकासम्पुटतः कथञ्चित्केनापि प्रकारेण स्वबन्धनभयाकुलितत्वेन विगलितं निष्पतितं सन्स्खलितं सन्मुखकमलमध्येऽधरो बभूव ॥१५॥ हीसु० 'रक्ताङ्करक्तमणिपल्लवपाटलश्री-पाटच्चरो यदधरः श्रियमश्नुते स्म । आस्थानवेदिरिव 'वाङ्मयदेवताया आवासवेश्मनि कुमारमुखारविन्दे ॥१५॥ (१) विद्रुमपद्मरागरत्नकिसलयवद्रक्ता शोभा, तस्याः तस्करः । (२) धत्ते स्मेत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy