SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० लावण्यनीरनयनाब्जयदीयवक्त्र-कासारपालिरिव कर्ण युगं 'विरेजे । . द्विपेषु सूचयति किं स्वमितेषु भावि-रेश्लोकं शिशो: "श्रवणयोश्च नवद्वयाङ्कः॥८८॥ (१) लवणिमैव जलं तथा नयने एव कमले यत्र तादृशहीरकुमारवदनतडाकस्य सेतुः पालिः -सरसो जलस्य रुन्धनस्थानम् । (२) अष्टादशद्वीपेषु । “अष्टादशद्वीपनिखात यूष" इति रघुवंशे । (३) यशः । (४) कर्णयोः आकृतिरुपो नवकाङ्को दृश्यते । यथा -“कर्णान्तरुत्कीर्ण गभीरलेखः किं तस्य सख्यैव नवा नवाङ्कः" इति नैषधे ॥८८॥ हील० कर्णयुगं विभाति । उत्प्रेक्ष्यते । लावण्यमेव नीरं यस्य, नयने एव अब्जे यस्य, तादृशस्य यद्वक्त्रतटाकस्य पालिः । च पुनः कर्णयोर्न वेति सङ्ख्याकानां द्वयस्याङ्कः आकृतिरूप: अष्टादशवाची अष्टादशप्रमाणेषु द्वीपेषु भावियशः कथयतीव ॥८९।।* हीसुं० विद्वेषिभावमपहाय परस्परेण स्वर्भाणुशुभ्रकिरणाम्बुजबन्धवोऽमी । केशच्छटारजतकाञ्चनकुण्डलाङ्गा यस्मिन्विधातुमिव साप्तपदीनमीयुः ॥८९॥ (१) वैरभावं त्यक्त्वा । (२) राहु-चन्द्र-सूर्याः । (३) केशपाशरूप्यस्वर्णकर्णपूरकायाः । (४) सख्यम् । (५) आगताः ॥८९॥ हील० विद्वे० । द्वेषरहिताः पुनः केशपाशः स्फटिकहेमयोः कुण्डले तद्रूपा राहुचन्द्रार्काः यस्मिन् कुमाररूपसम्यक्स्थाने मैत्री कर्तुमागताः ॥९०॥* हीसुं० 'सक्तः श्रुतौ शिशुशशी यदसावितीव तच्चक्षुषी ३श्रुतियुगं "परिषस्वजाते । 'नीलोत्पले उदय:( यतः) कुमदोस्तदा(द)क्ष्णो-र्लक्ष्मी *च ते तरलतारकयोः श्रयेते ॥१०॥ (१) आसक्तः । (२) स रङ्गशास्त्रे ? । (३) श्रवणयुगलम् । (४) आलिङ्गतः । (५) यदि स्मेरकुमुदयोर्नीलकमले प्रादुर्भवतस्तदा विलस्त्कनीनिकयोः कुमारलोचनयोः श्रियं श्रयतः ॥९०॥ हील० सक्त०। असौ शास्त्रे सक्तः इति कारणात्तस्य नेत्रे कर्णद्वन्द्वं आलिङ्गतः स्म । यदि नीलोत्पले कैरवयोर्मध्ये उदयतस्तदा चलकनीनिकयोर्नेत्रयोर्लक्ष्मी भजेते ॥९१।।* हीसुं० 'दृग्दोषखण्डनकृते २भ्रमरं तदीये चिह्न मिषेरिव मुखे कृतवान्विर ञ्चिः । 'विश्वप्रदीपसदृशो यदसौ तदीया नासापि तद्भजति दीपशिखोपमानम् ॥११॥ (१) दृष्टिदोषनिवारणाय । (२) कुरलो भ्रमरालकम् । (३) कज्जललाञ्छनम् । 1. विभाति हीमु० । 2. विद्वेषिभावमपहाय परस्परेण केशच्छटास्फटिकहाटककुण्डलाङ्ग।। स्वर्भाणशभ्रकिरणाम्बुजबन्धवोऽमी यस्मिन्विधातमिव साप्तमदीनमीयः ॥ हीमु० । 3. यंदा० हीमु० तत्र बृहट्टीकायां तु 'तदक्ष्णोः' इत्येव पाठो व्याख्यातः। 4. तदा तरल. हीमु० 14. तारिकयोः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy