SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ॥ ९५ ( १ ) निजध्यानस्य विघ्नविधानादुत्पन्नः क्रोधो यस्य तादृशात् शम्भोः प्रकटीभवता भयेन हननलक्षणां शङ्कां प्राप्तं हृदयं यस्य तथाविधस्मरस्य । (२) शरीरमुज्झतः । (३) स्मरछत्रेण । ( ४ ) न्यङ्मुखेन ॥ ८४ ॥ हील० स्वस्य ध्यानलोपोद्भूतकोपस्येशस्य भयभीतस्य, अत एव तनोस्त्यागं कुर्वतः कामस्य अधोमुखेन छत्रेण यस्य मस्तकं कृतम् ॥८५॥ हीसुं० उत्तुङ्गभावमथ' वर्त्तुलतां दधान-मुष्णीषमस्य सुषमां स्म बिभत्ति मौलौ । यस्मिन्स' माजिगमिषोस्तरु णत्वलक्ष्म्या 'माङ्गल्यकुम्भ इव के शरु हाश्रिताङ्कः ॥८५॥ ( १ ) उन्नतत्वं वृत्तत्वं च । ( २ ) सातिशायिनीं शोभाम् । ( ३ ) समागन्तुमिच्छो: । ( ४ ) तारुण्यश्रियः । ( ५ ) कल्याणकारिकलश इव । ( ६ ) केशा एव दुर्वास्ताभिराश्रित उत्सङ्गो यस्य ॥८५॥ हील० उत्तु० । अस्य मौलौ वर्तुलं उष्णीषं सातिशायिशोभां दधार । उत्प्रेक्ष्यते । यस्मिन्हीरकुमरे आगन्तुकामा यौवनश्रियः । केशा एव रुहा दूर्वा तया श्रितः अङ्को यस्य तादृशः कल्याणकारी कुम्भः ||८६|| हीसुं० यश्चन्द्रिकाङ्कितचतुर्द्विजराजराज - द्भालार्द्धशीतमहसो वहते स्म शश्वत् । शुद्धाशयोऽमृतरसायितवाग्विलासो द्वासप्ततिः कलयतात्सकलाः कथं न ॥८६॥ (१) ज्योत्स्नाभिः संयुतैश्चतुः सङ्ख्याकैर्द्विजराजै राजदन्तै राजन्शोभमानः ललाट एवार्थः शशी तान् सार्द्धचतुश्चन्द्रान् । ( २ ) निर्मलहृदयः । ( ३ ) सुधारस इवाचरिता वच्[ न ]वैचित्री यस्य ॥८६ । हील० यश्च० । यो हीरकुमरः ज्योत्स्नासहितान् चतुः सङ्ख्याकान् राजदन्तान् चन्द्राश्च । तथा राजत् दीप्यमानं यद्भालमेवार्द्धशीतमहास्तान्सार्द्धचतुश्चन्द्रान्धत्ते । स कुमारो द्वासप्ततिकलाः कथं न धत्ताम् । शेषं सुगमम् ||८७|| हीसुं० 'भालस्थलप्रसृमरांशुपयः प्रवाहो-पान्तप्ररूढलतिकेव विभाति यद्भूः । 'शङ्खोऽप्यभूद्वदनवारिजपार्थिवस्य चन्द्रादिवैरिविजये किमु " वादनार्हः ॥८७॥ हील० ( १ ) ललाटरूपं यत्स्थलं प्रदेशविशेषस्तत्र प्रसरणशीला अंशव एव पानीयानां समीपसमुद्गतफलिनी वल्ली च । (२) ललाटश्रवणयोर्मध्ये प्रदेशविशेषः शङ्खः । ( ३ ) मुखराजस्य । ( ४ ) विधुप्रमुखद्विषत्परिभवसमये । ( ५ ) स्वविजयसूचनाय वादयितुं योग्यः ॥८७॥ भाल० । यद्भूर्भाति स्म । उत्प्रेक्ष्यते । भालस्थलस्य विस्तरणशीला ये किरणास्त एव नीरप्रवाहस्तत्रोद्भूता लता । शङ्खोऽपि मुखराज्ञः चन्द्रदर्पणजये किमु वादनयोग्यः ॥८८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy