________________
९४
'श्री हीरसुन्दर' महाकाव्यम् हील० ना० उत्प्रेक्ष्यते । धात्रा स एव हीरकुमार उदाहरणं दृष्टान्तो येषां तादृशैः कृतैः । पुनः समुद्रेण
कविनोक्तं शास्त्रं तत्रोक्तैर्नरलक्षणैस्तत्र कुमरे । “कुमारः कुमरोऽपि चेति" शब्दप्रभेदे । व्यभिचारो नाप्तः । यथेह जगति सति योग्ये विद्यमाने उपमानविधौ अन्यपदार्थसादृश्यीकरणप्रकारे ताकिकै
र्व्यभिचारित्वं न लभ्यते ।।८१।। हीसुं० तस्याभवल्लवणिमातिशयः स कोऽपि प्रोत्तारयन् यदुपरि स्थविर: 'शिवाय ।
मुक्ताः क्षिपत्यनुदिनं 'पवमानमार्गे 'ता एव तत्र किमु तारगणा भवन्ति ॥८१॥ (१) लावण्याधिक्यम् । (२) प्रोत्तारयन् न्युञ्छनानि कुर्वन् । (३) यल्लावण्यातिशयस्योपरि। (४) स्थविर:-पितामहो विधाता ।(५) कल्याणाय । (६) मुक्ताफलानि (७) प्रतिदिनमुक्ताः
क्षिपति त्यजति । (८) गगने । (९) ता मुक्ता एव । (१०) ताराः ॥८१॥ हील० तस्य लावण्यातिशयोऽद्वैतोऽभूत् । यस्योपरि प्रतिदिनं पितामहः कल्याणकारणाय मुक्ताः गगनमार्गे
क्षिपति । ता एव तत्राम्बरे किमु ज्योतिर्मण्डलानि भवन्ति ।।८२॥ हीसुं० स्पोदयादिव मिथः प्रवयं 'सृजद्भि-रङ्गैः स चङिमवपुर्विभवेन तेन । ईष्यां 'तमीप्रिय तमः प्रणयन्विजित्य लक्ष्मच्छलेन “मुमुचे किमु लाञ्छयित्वा
॥८२॥ (१) स्पर्द्धाया उदयात् । (२) पुष्टिं कुर्वद्भिः । (३) अवयवैः । (४) चङ्गिम्ना चारुत्वेन युतकायशोभया । (५) विधुः । (६) कुर्वन् । (७) लाञ्छनकपटेन । (८) लाञ्छनं मष्या
अभिज्ञानमास्ये कृत्वा मुक्तः ॥८२॥ हील. स्पर्दो०। तेन कुमरेण ईष्यां कुर्वन् चन्द्रः मुखे मष्या अभिज्ञानं कृत्वा मुक्तः । किंभूतेन ? तेन
सह चङ्गिम्ना वर्तते तादृशो वपुर्विभवो यस्य । कैरङ्गैः स्पर्धायाः उत्पादात्पुष्टिं कुर्वद्भिः ॥८३|| हीसुं० केशोच्चयः स्फुरति तस्य स नीलकण्ठ-पृष्ठे प्रविष्ट इव येन जितः ३कलापः ।
आबाल्यतः कुटिलता "मनसोऽपनीता यं भेजुषी पुनरुपेत्य कचच्छटासु ॥८३॥ (१) केशपाशः । (२) केकी शम्भुश्च । (३) मयूरपिच्छम् (४) बालत्वं मर्यादीकृत्वा । (५) चित्तात् । (६) बहिः कृता । (७) केशनिकरेषु "तटान्तविश्रान्ततुरङ्गमच्छटा" इति
नैषधे छटा शब्दः समुदयेऽस्तीति ॥८३॥ हील० केशो० । अस्य स केशपाशो भाति । येन केशपाशेन जितः कलापः । ईशस्य मयूरस्य पृष्ठभागे
प्रविष्टः । पुनर्येन कुमारेण शैशवं मर्यादीकृत्य मनसः कुटिलता निष्कासिता सती । यं कुमरं केशेषु
समेत्य बभाज ॥८४|| हीसुं० 'स्वध्यानलोपभवकोपपिनाकिजाग्र-दातङ्कशङ्कितमनःसुमनःशरस्य ।
त्यागं तनोविदधतः कृतवान्विधाता छत्रेण यस्य किमु मौलिम वाङ्मुखेन ॥८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org