________________
तृतीयः सर्गः ॥
९१
हील० कुंरा०। चेतोहरं तस्यास्पष्टभाषणं व्यवहारिषु भास्करस्य मनो हृतम् । यथा किञ्चित्प्रकटीभवन्
युवभावो यस्यास्तादृशी नवोढा बाला तस्या नातिचातुर्यं किलकिञ्चितं विभ्रमविशेषः प्रियस्य मनो
हरति ॥७०॥ हीसुं० इक्ष्वाकुवंश इव 'नाभिमहीमघोना विश्वप्रशस्यवृषभाङ्कतनूभवेन ।
1ओकेश इत्युदयवांस्तनयेन तेन मेने महेभ्यवृषभेन नि जान्ववायः ॥७०॥ (१) नाभिराजेन । (२) त्रिभुवनश्लाघास्पदादिदेवनन्दनेन । (३) अभ्युदययुक्तः ।
(४) स्ववंशः ॥७०॥ हील० इक्ष्वा०। तेन सुतेन कृत्वा इभ्यपुङ्गवेन स्ववंश उदयवान् मेने । यथा विश्वे श्लाधनीयेन ऋषभदेवेन
कृत्वा नाभीपृथ्वीन्द्रेण इक्ष्वाकुवंशः अभ्युदययुक्तोऽमानि ॥७१।।। हीसुं० धात्र्यो'दितां प्रथमत: 'पृथुकप्रकाण्डः कीरस्य शाव इव चारुमुवाच 'वाचम् । 'तस्याः पुनः समवलम्ब्य ‘कराङ्गुलीः स लीलायितं वितनुते स्म गतौ
१°स्विकायाम् ॥७१॥ (१) उपमात्रा कथितम् । (२) कुमारमुख्यः । (३) शुकबालकाः । (४) मनोज्ञां (५) वाणीम् । (६) धात्र्याः । (७) आश्रित्य । (८) हस्ताङ्गलीः । (९) आत्मीयगमने लीलया आचरितं चकार । लीलागतिमदर्शयत् । (१०) "हंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव
स्विकायामिति नैषधे ॥७१॥ हील० धात्र्यो०। सोऽर्भक उपमात्रा प्रथममुच्चरितां वाणी उवाच । यथा शुकशावक: प्रथमकथितां चार्वी
वाचं वदति । पुनः स कुमारस्तस्या धात्र्याः हस्तस्य तर्जन्यादिकाः अङ्गलीगृहीत्वा आत्मीयायां गतौ
गमने लीलयाचरितं चारुचङ्क्रमणविलासं तनुते स्म । लीलागमनमदर्शयत् इत्यर्थः ॥७२॥ हीसुं० 'चूलाक्रियामहमथा भवस्य तस्य सन्तन्वता पुलककोरकितने तेन ।
४श्रीदायितं "प्रदिशता मणिहेमजात-माढ्यायितं समुदयेन च मार्गणानाम् ॥७२॥ (१) शिखाकरणाद्याचारम् । (२) पुत्रस्य । (३) रोमाञ्चकञ्चकितेन दानविद्यौ व्यवहारिणा। (४) धनदवदाचरितम् । (५) ददता । (६) रत्न-स्वर्णसमूहम् । (७) महेभ्यवदाचरितम् ।
(८) याचकनिकरेण ॥७२॥ हील० चूला० । रोमाञ्चकञ्चकितेन चूलाक्रियोत्सवं कुर्वता । पुना रत्नादि ददता धनद इवाचरितम् । उत
याचकव्यूहेन ईश्वरीभूतम् ॥७३॥ हीसुं० शावः शुभैरवयवैस्स वितुः प्रयत्ना-द्वद्धि दधावनुदिनं स्वजनैरुपास्यः ।
भूमीभृतो बहलनिर्झरतस्त रङ्गैः सिन्धुप्रवाह इव पत्त्ररथा भिरामः ॥७३॥ 1. उत्केश हीमु० । 2. रथैर्निषेव्यः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org