________________
'श्री हीरसुन्टर' महाकाव्यम् हीसुं० तत्कर्णयोर्मणिविनिम्मितकर्णपूर-द्वन्द्वं कयाचिदवलम्बितमुद्दिदीपे ।
नित्योदयः कथमभूस्त्वमिदं मुखेन्दं प्रष्टुं किमि त्युपगतं शशिसूर्ययुग्मम् ॥६६॥ (१) अर्थात्वेत-पीतरत्नघटितकुण्डलयुगलम् । (२) कर्णयोर्दत्तम् । (३) नक्तंदिनमस्तरहितः ।
(४) कुमारवदनचन्द्रम् । (५) आगतम् ॥६६॥ हील० तत्क० । रत्नघटितकुण्डलयुगलं कयाचित्तस्याः(स्य) कर्णयो विषये विलम्बितं स्थापितं शुशुभे ।
उत्प्रेक्ष्यते । अस्य मुखचन्द्रं इति प्रष्टुं उपगतं समेतं शशिसूर्ययोर्युग्मम् । इतीति किंम?। हे मुखेन्दो ! नित्यमुदयो यस्य तादृशः केन प्रकारेण सञ्जातस्तत्कारणमावयोर्वद । यथा आवामपि नित्योदयौ
भवामः(व:) ॥*६७॥ हीसुं० ने त्रामृताञ्जनमसौ जगतां यदस्या-नञ्जाक्षिणी किमिति काचन कज्जलेन ।
सर्वाङसूत्रमिह धास्यति येन तस्योरसूत्रिकां किमिति काचि दुरस्यधत्त ॥६७॥ (१) नेत्राणाममृतस्याञ्जनमिव । (२) समग्राणि आचाराङ्गादिलक्षणाङ्गानि तदेव सूत्रं सिद्धान्त
मसौ हृदये धारयिष्यति । (३) मौक्तिककृतहारम् । (४) वक्षसि ॥६७॥ हील० नेत्रा० । काचन स्त्री अस्य नेत्रे आनञ्ज । किमितीव इति किम् ?। यदसौ जगन्नेत्राणाममृताञ्जनं
भावी। पुनरिह हृदये आचाराङ्गादिभिरुपलक्षितं सूत्रं धारयिष्यति । किम् ?। इति कारणादेव
तस्योरसि मुक्तालतां क्षिपति स्म ॥६८॥ हीसुं० पादारविन्दयुगलोपरिलम्बिनीनां क्वाणै रणज्झणितराजतकिङ्किणीनाम् । श्वीकाविशेषललितेन 'मरालबाल-स्तम्बेरमाविव 'विगायति यः कुमारः ॥६८॥
इति धात्रीभिष्प( : प)रिपालनशृङ्गारकरणादि । (१) चरणकमलयुगलोपरिबद्धानाम् । (२) रणज्झणितशब्दं कुर्वदूप्यघुघुरिकाणाम् । (३) गमनातिशयविलासेन । (४) बालशब्दो लालाघण्टान्यायेन उभयत्र सम्बध्यते । ततो बालहंसं
बालगजं वा । (५) अवगणयति जयतीति यावत् ॥६८॥ हील० पादारविन्दोपरिस्थानां रणज्झणितानां रूप्यकिङ्किणीनां शब्देन पुनर्गते विशेषलावण्येन हंसबालं बालगजं
च । बालशब्दो घण्टालालान्यायेनोभयत्र सम्बध्यते । यः शिशुनिन्दतीव ॥६७॥ हीसुं० 'कुंराह्वयस्य हरति स्म मनो मनोज्ञं तन्मुन्मुनालपनमिभ्यगभस्तिभर्तुः ।
'किञ्चिद्विजृम्भियुवभावनवोढबाला-नातिप्रगल्भकिलकिञ्चितवत्प्रियस्य ॥६९॥ (१) तत्पितुः । (२) मनोहरम् । (३) यत्तस्यमुन्मुनालपनम् । (४) व्यवहारिषु मध्ये तत्पुत्रप्रतापेन भारकर इव भास्करस्य । (५) किमपि प्रकटीभवत्तारुण्यं यस्यास्तादृश्या नवपरिणीतकान्ताया नाधिकचातुर्यान्वितं किलकिञ्चितं विलासविशेषः ॥६९॥
1. कयाचन विलम्बि० हीमु० 2. इति धात्रीपरिपालन-शृङ्गारकरणम् हील.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org