________________
१ रिसहसाम - २ भरहचक्कवट्टिचरियं ।
चन्द्रलेखा - जेणे निमित्तेण अम्ह पियसहि त्ति ।
विदूषकः -- ती दोन्हं पि सावराहाणं अहं समारणं करेमि । ( इति भणित्वा नायिका - नायकयोः करं करेण लगयति । ) बन्धुमती - अज्जउत्त ! कओ परिहासो, जाणिया उवरोहसीलया तुहं, ता मुंच करं ।
नायकः-
चिरमाशंसितस्पर्शो येन स्वप्ने प्रसारितः । स कथं मुच्यते प्राप्तः परितोषकरः करः ? ।। २९ ।। चन्द्रलेखा कुमार ! न जागामि किं कहिस्सइ कंचुई ? इइ उत्तम्ई मे हिययं । विदूषकः - 'भोदि ! जं कहउ तं कहउ कंचुई, वित्तं खु पाणिग्गहणं ।
(ततः प्रविशति कचुकी । मुञ्चति च करं कुमारः 1 )
ककी दिष्ट्या वर्धस्व । सर्व यथावस्थितमेव निवेदितं मे राजराजाय । राज्ञाऽपि सहर्षेण सांवत्सरिकः समाहूय पृष्टः । तेनाप्यद्यैवाऽऽसन्नकाल एव लग्नसमयो निवेदितः । ततो राजा सपरिजनः सान्तःपुरो विवाहसामग्री प्रति समाकुलीभूतः । तद् गच्छतु भवान् सवधूकः । भवदागमनोन्मुखोऽविधवस्त्रीज नस्तिष्ठतीति । किञ्च --
राजा समाकुलोऽसौ तिष्ठत्यधुनैव परिजनसमेतः । गन्तव्यं सह वध्वा त्वरतु भवान् ढौकते कालः ॥ ३० ॥ इति । हहहः ! विरूपमापतितम्, 'ढौकते लग्नम् ' ( इति पठति । )
बन्धुमती - हयास ! पडिहयं खु ते वयणं ।
कुमारः - आयें ! कुतोऽस्य दोषः ? । यतः -
अवश्यम्भाविनो भावाः सूचयन्ति यथा तथा । अनागतनिमित्तानि दोषवान् योऽवधीरयेत् ॥ ३१ ॥ किञ्च --..
२५
प्राप्तं दर्शनमुत्सुकेन मनसा यत् काङ्क्षितं सर्वदा, लब्धं सर्वमुरातिशायि विधिवत् स्पर्शोरुसौख्यं ततः । कर्णौ शब्दकुतूहलाकुलतरौ वाक्यामृतापूरितौ, जातं जन्मफलं भवत्वखिलितं यद् भावि सज्जा वयम् ॥ ३२ ॥ कञ्चुकी – कुमार ! किमनेनामङ्गलवचनेन ? । तद् गच्छतु भवान् । स्वमपि वच्छे ! गच्छ, सज्जा भव ।
( [ सर्वे ] परिक्रम्य निष्क्रान्ताः । )
कचुकी -- अहमपि राजादेशं पौराणां निवेदयामि । (प्ररिक्रम्य) भो भोः पौराः ! राजा समादिशति, यथा - बच्छाया विवाहसमयो वर्तते, तत उच्च्छ्रुतध्वज पताकं कृतविषणिशोभं पुरं कुरुध्वम् । ( परिक्रम्य अवलोक्य च ) अये ! महती वेला वर्तते, महांच निनादो राजकुले श्रूयते, ततो न विद्मः किमभूद् राजकुले ? | महती च मे वारा निर्गतस्य । ततो राजकुलाभिमुखमेव यास्यामि ।
(नेपथ्ये )
हा ! कष्टम्, धिगहो ! कष्टम् ।
कञ्चुकी – ( सराङ्कः ) किमेतद् ? ( इति कर्णं ददाति । पुनरपि कष्ट गर्भमाकर्ण्य ) अये ! राजध्वनिरिव लक्ष्यते, तत् किमेतत् स्यात् ? इति । ततो राजान्तिकमेव यास्यामि । ( इति निष्क्रान्तः । )
Jain Education International
१ येन निमित्तेनास्माकं प्रियसखीति । २ तद् द्वयोरपि सापराधयोरहं समास्वनं करोमि । ३ आर्यपुत्र ! कृतः परिहासः, ज्ञातोपरोधशीलता तव, तद् मुञ्च करम् । ४ कुमार ! न जाने किं कथयिष्यति कचुकी ? इत्युक्त्ताम्यति मे हृदयम् । ५ इ मह हि जे । ६ भवति । यत् कथयतु तत् कथयतु कटुकी, वृत्तं खलु पाणिग्रहणम् । ७ हताश ! प्रतिहतं खलु ते वचनम् । ८ विविधस्पर्शो जे ।
For Private & Personal Use Only
www.jainelibrary.org