________________
चउप्पन्नमहापुरिसचरियं ।
- ( अभिलिख्य निर्वर्ण्य च ) वयस्य ! न सम्यक् तस्या रूपानुरूपं विद्धं विधातुम् । पश्य
घुणाक्षराकारमदो मतिर्मे मन्ये विधात्राऽपि न शक्यमन्यत् ।
रूपं विधातुं रुचिराङ्गयष्टेः कुर्यात् कथं तद् भुवि मादृशोऽन्य (१ इ: ) ।। २६ ।। तद् वयस्य ! मा कश्चिदन्यथा सम्भावयेदिति निर्गच्छावः ।
२४
कुमारः
विदूषकः -- एवं करम्ह, एदु एदु भवं ।
चन्द्रलेखा - पियसहि ! णिग्गया एए । ता पेच्छम्ह का से हिययदइया जा अभिलिहिया ? |
(निर्गत्यावलोक्य च )
चन्द्रलेखा --- पियसहि ! तुमं य्येव लिहिया । ता जं मए पुत्रं मंतियं तं सव्वमेव कुमारेण तुमं लिहिऊण सचं कयं । ता समस्ससउ समस्सस पियसही ।
(बन्धुमती सहर्षा सलज्जेव संवृत्ता । )
कुमारः - सखे ! मा कश्चिदविनयमस्माकं सम्भावयिष्यति, अतो गत्वाऽस्मल्लिखितं चित्रमपनय । विदूषकः - एवं करेमि । ( समारूढः । विधृतश्च चन्द्रलेखया । ततो वातायनस्थः कुमारमाह्वयति, पूत्करोति च ) भो भो पिययंस ! अमेत्थ केणावि धरिओ । ता सई य्येव कुमारो आगंतूणं मं मोयावेउ ।
( कुमारस्तथा करोति । पश्यति च समारूढः चन्द्रलेखासमन्वितां बन्धुमतीम् । परस्परानुरागं नाटयतः । ) कुमारः ( आत्मगतम्) अहो ! अतिशयवतां गुणानामेकत्र समवायः । तथा हिकान्त्या चन्द्रमसं जिगाय सुमुखी नीलोत्पलं चक्षुषा, गत्या हंसमशोकपल्लवगुणं पाण्याकृतिर्वाधते । सच्चामीकरचारु कुम्भयुगवत् तन्व्याः स्तनौ राजतः, श्रोणीमन्मथमन्दिरोरुयुगलं स्तम्भायतेऽस्याः स्फुटम् ॥ २७ ॥ अपि च-----
नामूर्ती न च कौमारतिपतेन पञ्चमोद्गीतयो, 'ये ते स्तम्भन - मोहनादिकमधु ( घो) र्वाणा जगद्व्यापिनः । नूनं धनुषः कटाक्षवपुषो नेत्रत्रिभावोद्भवास्तेऽमुष्याः कथमन्यथेक्षणगुणा मामाकुलं कुर्वते ? ।। २८ ।। (प्रकाशम) सखे ! केन विवृतः ? |
चन्द्रलेखा -- णु अम्हेहिं ।
बन्धुमती ( अपवार्य) हेला चेंदले हे ! जइ पभवसि अत्तणो सरीरगस्स ता तुमं य्येव जमेत्थ भणियव्वं तं सव्वं भणसुचि ।
चन्द्रलेखा - भट्टिदारिए । सव्वमहं पत्तावसरं भणिस्सामि । ( प्रकाशम्) किमम्हाणं पियसही लिहिय ? ति 'सावराहो' सिकाऊन धरिओ ।
कुमारः-- अस्त्ययमपराधः । नास्माभिर्ज्ञातम्, यथा- एषा ते प्रियसखी । इयं त्वस्माकमैतीवचित्तखेदकारिणीति कृत्वा लिखिता ।
विदूषकः -- अँये असमंजस कारियाओ ! एस अम्हाणं पियवयंसो तुम्हेहिं किं लिहिओ ? ।
१ तद्विधिमा जे । २ एवं कुर्वः, एतु एतु भवान् । ३ प्रियसखि ! निगतावेतौ । तत् प्रेक्षावहे, का तस्य हृदयदयिता याऽभिलिखिता ? । ४ प्रियसखि ! त्वमेव लिखिता तद् यन्मया पूर्व मन्त्रितं तत् सर्वमेव कुमारेण त्वां लिखिता । सत्यं कृतम् । तत् समाश्वसितु
समाश्वसितु प्रियसखी । ।
७ नम्वावाभ्याम् ।
५ खच्चीकयं सू । ६ एवं करोमि । भो भो प्रियवयस्य ! अहमत्र केनापि घृतः तत् स्वयमेव कुमार आगत्य मां मोचयतु ८ सखि चन्द्रलेखे ! यदि प्रभवस्यात्मनः शरीरकस्य तत् त्वमेव यदत्र भणितव्यं तत् सर्व मण इति । ९ चन्द्रलेहे जे | १० भदा सू, भर्तृदारिके ! सर्वमहं प्राप्तावसरं भणिष्यामि किमस्माकं प्रियसखी लिखिता ? इति 'सापराधः ' इति कृत्वा धृतः । ११ तथैषा जे । १२ मत्यन्तं चित्त जे । १३ अयि असमञ्जसकारिके ! एषोऽस्माकं प्रियवयस्यो युवाभ्यां किं लिखित: ? ।
Jain Education International
*For Private & Personal te Only
www.jainelibrary.org