________________
१ रिसहसामि- २ भरहचक्कवट्टिचरियं ।
२३ चन्द्रलेखा-पियसहि ! दीसइ ते मणोरहतरुणो कुसुमुग्गमो, ता सासंकमिव मह हिययं, ण याणामि किमेस भणिस्सइ ? ति।
बन्धुमती-महं पि।
कुमार:- कन्चुकिन् ! तिष्ठतु तावद् राज्याम्,ि प्रेषितो मया लेखवाहकः पितुरन्तिकं वार्तान्वेषणार्थ यावदसावागच्छति । कन्या तु युक्ता ग्रहीतुम्, उचित एव सम्बन्धो राज्ञा सह कर्तुम् , किन्तु न शक्यमन्यतः प्रवृत्तं चित्तमन्यतो दातुम् ।
बन्धुमती- हा ! हय म्हि मंदभाइणी । एवं पि सुणिऊण पियवयणं ण गच्छंति मे पाणा। (मूछौँ नाटयति ।)
चन्द्रलेखा-समस्सस्सउ समस्सस्सउ भट्टिदारिया । कयाति तुहाणुगयचित्तो 'एसा पुण अण्ण' त्ति मण्णंतो एवं मंतेइ कुमारो।
बन्धुमती-कुओ एत्तियाणि अम्हाणं भागधेयाणि ?। अहवा एयं पि विहिविलसिए सम्माइ त्ति। (ततः समाश्वसिति ।) विदूषकः-वयंस ! अपडिहयसासणो खु राया, पढमा य पत्थणा, ता ण जुज्जइ वयणमण्णहाकाउं राइणो ।
कुमार:-कञ्चुकिन् ! यधेवं निर्बन्धो भवतः तदानीं निवेदय राज्ञे, यथा- यद् राजा समादिशति तदेव क्रियत इति, सज्जोऽयं जनः।
(परिक्रम्य निष्क्रान्तः कञ्चुकी।) विदूषकः-(चित्रं दृष्ट्वा ) भी वयस्स ! तुम पि केणावि लिहिओ। कुमार:- (निर्वर्ण्य ) एवमेवैतत् । तत् केन पुनः किंनिमित्तं वा लिखितः । विदूषकः-सेबमेयमहं जाणामि । कुमारः-महामन्त्रिन् ! कथय यदि जानीषे ।
विदूषकः-"किमेत्थ जाणियव्वं ?। जा इयं कंचुइणा तुम्ह निवेझ्या रायदुहिया तीए संपर्य य्येव तुमं लिहिओ, जओ चित्तवट्टियासमेओ समुगओ इह य्येव चिटइ । णिमित्तं पुण अणुरायपयडणं ।
कुमार:--विज्ञानाविष्करणमेतत् । अनुरागस्य तु किमायातमत्रादृष्टपूर्वे जने ?।
विदूषकः --- कुमार ! जइ पुग एसा सा चेव भवे जा अम्हेहिं उज्जाणगमगावसरे दिट्ट त्ति । किं न संभाविजइ विहिविलसियस्स ? । जओ
जं चिंतिज्जइ हियएण नेव जुजइ ण चेव जुत्तीहिं । विहडण-संघडणपरो तं पि हयासो विही कुणइ ॥२५॥
तो वयंसो वि इमाहिं य्येव चित्तबट्टियाहिं तं हिययगयपडिच्छंदयमवलोययंतो एयस्स समीवे अहिलिहतु, जओ ण कयाइ रेहइ रइरहिओ रइणाहो ति।।
कुमारः-यदाह भवान् । ( इति भगित्वा लिखितुमारब्धः ।) चन्द्रलेखा-"पियसहि ! संपयं फुट्टिस्सइ "थिल्लं । णिव्वडिस्सइ जा कावि कयत्या एयस्स हिययगय त्ति।
१ प्रियसखि ! दृश्यते तय मनोरथतरोः कुसुमोद्गमः, तत् साशङ्कमिव मम हृदयम् , न जाने किमेष भणिष्यति ? इति । २ ममापि। ३ हा ! इताऽस्मि मन्दभागिनी । एवमपि श्रुत्वा प्रियवचनं न गच्छन्ति मे प्राणाः । ४ समाश्वस्यता समाश्वस्टतां भर्तदारिका । कदाचित् त्वदनुगतचित्तः एषा पुनरन्या' इति मन्यमान एवं मन्त्रयति कुमारः । ५ कुत एतावन्त्यस्माकं भागधेयानि ? । अथवैतदपि विधिविलसिते सम्मातीति । ६ एवं पिजे । ७ वयस्य ! अप्रतिहतशासनः खलु राजा, प्रथमा च प्रार्थना, तन्न युज्यते वचनमन्यथाकतु राज्ञः । ८ भो वयस्य ! त्वमपि केनापि लिखितः । ९ सर्वमेतदहं जानामि । १० मेवमहं जे। ११ किमत्र ज्ञातव्यम् ? । या इयं कञ्चुकिना तव निवेदिता राजदुहिता तया साम्प्रतमेव त्वं लिखितः, यतश्चित्रवर्तिकासमेतः समुद्गक इहैव तिष्ठति । निमित्तं पुनरनुरागप्रकटनम् । १२ कुमार ! यदि पुन रेषा सैव भवेद् याऽऽवाभ्यामुद्यानगमनावसरे दृष्टेति । किं न सम्भाव्यते विधिविलसितस्य ? । यतः
यच्चिन्त्यते. हृदयेन नैव युज्यते न चैव युक्तिभिः । विघटन-सङ्घटनपरस्तदपि हताशो विधिः करोति ॥ २५ ॥ तद् वयस्थोऽप्याभिरेव चित्रवर्तिकाभिस्तां हृदयगतप्रतिच्छन्दकामवलोकयन्नेतस्य समीपेऽभिलिखतु, यतो न कदापि राजते रतिरहितो रतिनाथ इति । १३ तो सू । १४ प्रियसखि ! साम्प्रतं स्फुटिष्यति थिल-रहस्यम् । निष्पत्स्यते या काऽपि कृतार्था एतस्य हृदयगतेति । १५ विलंसू Lorary.org
Jain Education International