________________
चउप्पन्नमहापुरिसचरियं । (ततः प्रविशति शोकापन्नः चित्रलेखाभिधानया राजमहिण्या सह राजा विलेपंश्च परिवार ।) __ राजा--- ( दीर्ध निःश्वस्य ) हा ! हतोऽस्मि मन्दभाग्यः । हे विधे ! अनार्य ! सर्वदा अकार्यरतस्यापि ते न युक्तमीदृशं वैशसमस्मिन्नवसरे विधातुम् । यतः
नृत्यन्मत्तविमर्दमर्दितमणिमोत्कीर्णचूर्णाकुलं, त्रुटयद्धारलतावितानविगलन्मुक्ताफलैरचितम् । क्षीवस्त्रीजघनस्थलोज्झितपतत्काञ्चीपदामाविलं, जातं मद्भवनं विवाहसमये तत् कं न विस्मापयेत् ? ।। ३३॥ क्षिप्तैर्दिक्षु समन्ततः सुरभिभिर्वासैर्जगत् पूरितं, शृङ्खश्चन्दन-कुङ्कुमोदकभृतैस्तन्मज्जनैः क्षालितम् ।
आतोद्यध्वनिभिः सन्पुररवैयाप्तं समस्तं तत, इत्थं विस्मितलोकलोचनकरः पुत्र्या विवाहः कृतः ॥ ३४ ॥ अवश्यम्भाविनश्च भावा भवन्तः कार्यविधानोधुक्तया भवितव्यतया समग्रसामग्रीकाः क्रियन्ते, अन्यथा क्वायं कुमारः ?, कुतो वाऽस्मदुहितदानम् ?, कथं वा विवाहानन्तरमेव कृष्णसर्पशिशुगर्भायाः कन्याभरणस्थगितपटलिकाया दास्येहानयनम् ?, कुतो वा चपलतया कुमारहस्तप्रक्षेपः ?, केन वा प्रकारेण तदर्शनानन्तरमेव कुमारस्य पञ्चत्वगमनम् ? इति । अहो ! दुर्निवारता व्यसनोपनिपातानाम् । सर्वथा स्पृशन्ति संसारान्तर्वर्तिनं नियतभाविनो भावाः। चिरयति च तत्संस्कारवान्वेिषणार्थ प्रेषितः कञ्चकी ।
(ततः प्रविशति कञ्चुकी।) कञ्चकी-- देव ! वत्सयाऽपि कर्पूर चन्दना-ऽगुरुकाष्ठचितायां चितायां सुहुतहुताशननीरन्ध्रभीषणप्रवृद्धज्वालावितानातदेहया लक्ष्मीधरकुमारमालिङ्गयाऽऽत्मा दग्धः।
राजा --- कृतशाश्वतयशोमयदेहायास्तस्याः किं दग्धम् ?, वयमेवात्रातर्कितोपनतातिदुःखाशनिवहिना दग्धाः।
चित्रलेखा -- हाँ ! हय म्हि मंदभाइणी । हा हयास देव ! णिक्करुण ! ण जुत्तं तुह एरिसं ववहरि । हा पुत्त ! लहिऊण अणुरायणिब्भरं तिहुयणे वि अइदुलहं भत्तारं न पूरिया अम्हाण मणोरहा । हा पुत्त ! कया हं तुमए दुक्खाण भाइणी । ( इति मूर्छिता पतति।)
मदनिका--- संमस्ससउ समस्ससउ सामिणी ।
चित्रलेखा--(समाश्वस्य दीर्ध निःश्वस्य च ) अजउत्त! किं तुमए एक य्येव मह मंदभाइणीए धूया मच्चुमुहं गच्छन्ती ण धरिया ?।
राजा -- अल्पमिदमुच्यते, इदमपि वक्तव्यं भवत्या-कुमारः किं न धृतः ?। किं कोऽपि केनचित् कथश्चिद् मृत्युमुखाभिमुखं जिगमिषुर्विधारयितुं शक्यः ? । यतः
मन्त्रैर्योगरसायनैरनुदिनं शान्तिप्रदैः कर्मभिर्युक्त्या शास्त्रविधानतोऽपि भिषजा सद्धन्धुभिः पालितः । अभ्यङ्गैर्वसुभिर्नयेन पटुना शौर्यादिभी रक्षितः, क्षीणे त्वायुषि किं क्वचित् कथमपि त्रातुं नरः शक्यते ? ॥३५॥
न शक्नोमि च ईदृशं कारुण्यं दृष्ट्वा क्षणमपि गृहे स्थातुम् । तद् गच्छ त्वम् । अहं तु पूर्वपुरुषगृहीतप्रव्रज्याग्रहणेन स्वकार्यमनुतिष्ठामि । अपि च----
कृत्वा बन्धुमती विवाहसुखितां लक्ष्मीधरस्यानुगां, पुत्रस्यापि समस्तविस्मयकरं राज्याभिषेकं ततः। कर्ताऽस्मीति समीहितं समधिया तत् साम्प्रतं चेष्टयते, आर्य ! किं करवाणि ? यन्न सहते दैवं क्रमेणेप्सितम् ॥३६।।
१ विभवतच सू, विभवश्व जे । २ मृत्युन्मत्त जे। ३ 'ना-ऽग जे। ४ हा ! हताऽस्मि भन्दभागिनी, हा हताश देव । निष्करुण ! न युक्तं तवेदशं व्यवहतुभ् । हा पुत्रि । लब्ध्वाऽनुरागनिर्भर त्रिभुवनेऽप्यतिदुर्लभं भर्तारं न पूरिता अस्माकं मनोरथाः । हा पुत्रि ! कृताऽह स्वया दुःखानां भागिनी। ५ समाश्वसित समाश्वसितु स्वामिनी । ६ आर्यपुत्र! कि त्वयकेव मम मन्दभागिन्या दुहिता मृत्युमुख गच्छन्ती न
धृता । ७ राजाभि जे । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org