________________
चउप्पन्नमहापुरिसचरियं ।
विदूषकः - केहें महई वारा णिग्गयस्स ? | जड़ पुण पियवयंसो जणयत्रयणुत्तेयविओ मह पउत्तिमणपेक्खिऊणमिहाऽऽगच्छेज्जा ! |
२०
ततः प्रविशति संरब्धो यथोदिष्टः कुमारः । )
कुमारः - कथमेतत् सन्दिष्टं तातेन ?, यथा- एकाकी त्वं निर्गतः सामग्रीविकलः, न चैकाकिभिः पृथिवीलाभ - पालने शक्ये विधातुमिति । तत् किं तातेन 'मदपत्यम्' इति न सम्भावितः ?, किं सिंहस्य वने विचरतः सहायैः कृत्यम् ? तथाहिवज्रप्रकोष्टकर जाग्रचपेटवातनिष्पिष्टद न्तिदशनोत्कटमौक्तिकौघः ।
सिंहः सहायविकलोऽपि दलत्यराती नन्तर्गतं ननु सदैककमेव सच्वम् ।। १२ ।।
अपि च
rrorist युधि नै शङ्कितमनाः स्वच्छन्दमृत्युर्यतः पार्थोऽपीश्वरकेशवर्षितबलो राधेयरक्षा रवेः । पौलस्त्योऽतिबलो भवादनुगुणा द्रोणादयोऽप्यन्यतो, यद् वीर्यं सहजं हरेरिव सदा तद् वीर्यवान् श्लाध्यते ॥ १३॥ अन्यच्च यदुक्तं तातेन, यथा- अस्मदुच्छादितगतिगम्यः कथं भविष्यति ? इति तत्रापि स्नेहोपचाराधीनस्तातः । यतःदुरचापगुणकर्षकिणिप्रकोष्ठो, वागावशीर्णरिपुचक्रविकीर्णतेजाः ।
शौर्यानुरागरसको ललितोरुचेष्टो, भ्रूक्षेपमात्रगतिकां वसुधामटामि ॥ १४ ॥
विदूषकः- - (सहसोपसृत्य ) जयतु जयतु कुमारः ( जयउ जयउ कुमारो ) ।
कुमारः - सखे ! कास्ते राजा ? किंचेष्टो वा ? |
विदूषकः - कुमार ! ण सम्ममुवलक्खीयइ । ता मुहुत्तगं इमीए कण्णंतेउरचित्तसालाए बीसमम्ह । पुण इह "य्येव सम्मं जाणिऊण गच्छिस्सामो ।
कुमारः -- यदि पुनरिहस्थितौ काचित् कन्याऽऽवां पश्येदिति ! |
विदूषकः - वैयंस ! अविरुद्धं कण्णादंसणं ति । कुमारः - एवमिति । ( तथा कुरुतः )
(ततः प्रविशति बन्धुमती चन्द्रलेखासमन्विता स्वैभव नवातायनस्थिता । )
चन्द्रलेखा - भट्टिदारिए ! एस ते हिययदइओ, ता वीसत्थं पिच्छउ पियसही, णेउ अत्तणो णयणणिम्माणं सफलत्तणं ति । इमाहिं चित्तवट्टियाहिं आलिहउ एयरूत्रं, पयडेउ विद्धदंसणेणं विष्णाणाइसयं ति ।
( ततो बन्धुमती दृष्ट्वा साशङ्केव विस्मयोत्फुल्ललोचना गृहीतवर्तिका लिखितुमारब्धा । )
बन्धुमती - संहि ! णयणाणि रूवदंसणूसुयाणि, सवणा वि सदसवणूसुया, सिज्जिरकरंगुली तग्गयहियया य कह णु णिम्मविस्सं चित्तं ? । अवि य
पियदंसण- फंसुप्पित्थहिययसिज्जिरकरग्गदेसाऽहं । पियसहि ! विसमाऽवत्था ण याणिमो कह णु चित्तिस्सं? ॥१५॥ ( लिखित्वा निर्वर्ण्य ) सहि !,
१ कथं महती वारा निर्गतस्य ? | यदि पुनः प्रियवयस्यो जनकवचनोत्तेजितो मम प्रवृत्तिमनपेक्ष्येद्दाऽऽगच्छेत् ।। २ सिंघः जे । ३ वाहित जे । ४ कुमार ! न सम्यगुपलक्ष्यते । तद् मुहूर्तमेतस्यां कन्यान्तःपुरचित्रशालायां विश्राम्यावः । पुनरिहस्थितावेव सम्यग् ज्ञात्वा गमिष्यावः । ५ ज्ञेव सू, एवं प्रस्तुतनाटकपरिसमाप्तिपर्यन्तं 'य्येव स्थाने सूपुस्तके 'जेव' इति पाठो बोद्धव्यः । ६ वयस्य । अविरुद्धं कन्या दर्शनभिति । ७ स्वभुवन सू । ८ भर्तृदारिके ! एष ते हृदयदयितः, तस्माद् विश्वस्तं पश्यतु प्रियसखी, नयत्वात्मनो नयननिर्माण सफलत्वमिति । अभिश्वित्रवर्निकाभिराखित्वेतद्रूपम्, प्रकटयतु विद्धदर्शनेन विज्ञानातिशयमिति । ९ सखि । नयने रूपदर्शनोत्सुके, श्रवणावपि शब्दश्रवणोत्सुकौ, स्वेत्तृकराड्गुली तद्गतहृदया च कथं नु निर्मास्यामि चित्रम् ? अपि च
प्रियदर्शन-स्पर्शाऽऽकुलहृदयस्वेत्तृकराय देशाऽहम् । प्रियसखि ! विषमाऽवस्था न जानामि कथं नु चित्रयिष्ये ? ॥ १५ ॥
For Private Personal Use Only
सखि!
Jain Education International
www.jainelibrary.org