________________
१ रिसहसामि- २ भरहचक्कट्टिचरियं । विदूषकः- अइ ! कयंतअद्विसमं अप्पाणं न पलोएसि उव्वसियदंतमालामुहवेविरसरीरं जेण परं उवहससि ।। कञ्चुकी- भवतु, किं तवानेन ?। तत् कथय क्वास्ते ते राजा ? इति येन तस्मै प्रियं निवेदयामि । विदूषकः-अह बम्भणस्स किमेत्थ भविस्सइ ? ति।। कञ्चुकी-साम्पतमुत्सवः, ततो विशिष्टो लाभः। विदूषकः-संर्पयमूमवो, तयणंतरमणूसवो, तओ हरिस-विसाएहिं चेव होयव्वं । ण पुण एत्थ बम्भणस्स किंचि । कञ्चकी-मूर्ख ! किमादावेवामङ्गलमुच्चारयसि ? । विदूषकः -नों एत्थ वायामेत्तेण किं पि संपज्जइ । जइ पुण तहा ता महं मोयया किं न संपज्जति ? ।
(ततः प्रविशति गृहीतलड्डकपडलिका चेटी।) चेटी-पेसिय म्मि सामिणीए, जहा-हंजे चउरिए ! वाहि गंतुं इमे मोयए बंधुमइसोभणवरलाभणिमित्तं भयवतीए कुलदेवयाए ढोइय ता अइहिविसेसस्स पयच्छ । कहिं पुण अइहि पेक्खिस्सं १ ।
कञ्चकी-(विलोक्य ) अये ! राजमहिष्याः सम्बन्धिनी चेटी चतुरिकेयम् । चतुरिके ! कोचलिताऽसि । चेटी-भेयवं ! पणमामि । कञ्चकी-सुभगा भव । चेटी-"पेसिय म्हि सामिणीए०। (पुनस्तदेव पठति ।) कचकी-यधेवमस्मै प्रयच्छ । (विदूषकमुद्दिशति ।)
(चेटी तथाकरोति) कञ्चुकी-भो अवितथवादिन् ! इमे मोदकास्त्वदुक्तितः सम्पन्ना इति । विदूषकः-जैइ एवं ता मह वयंसो देवो होही इति । कञ्चकी-आ दुष्टबटो ! अमङ्गलिक ! धिक् त्वाम् । अहं कुमारान्तिकं यास्यामीति । (निष्क्रान्तः)
विदूषकः -- (सतोषो मोदकान् नाटयेनावलोक्य ) भौई ! इमेहिं सुसिणिद्धेहिं सुपरिणाहाहोएहिं बहुजणपत्थणिज्जेहि तुह थणकलसेहिं विअ दंसणमुवगएहिं वि तहा परितुट्ठो, ण जहा वयंसलाहपउत्तीए वि ।
(ततश्चेटी कुपितेवावलोकयति । ) विदूषकः-'भोदि ! पुणो वि रूसिऊण इमेहि घणकसिणबहलपम्हलपक्खउडदरुम्मिल्लंततरलतारयावन्न(नेत्त)णिग्गयधवलजोण्हापवाहविच्छड्डगम्भिणेहिं कडक्खविक्खेवेहिं पलोएसि ! । दढं दढं कोऊहलाउलो म्हि ।
चेटी-हयास ! जइ ण गेण्हसि ता अण्णत्थ गच्छिस्सं ।
विदूषकः - अण्णत्थ वि गयाए तुह किमम्ह हियं भविस्सइ ? त्ति । ननु तुह घरे चेव ताव चिट्ठतु । पुणो राउलाओ णिक्खमन्तो"गेण्हिस्सामि।
चेटी-तथा । ( इति भणित्वा निष्क्रान्ता।)
१ अयि ! कृतान्तार्थिसममात्मानं न प्रलोकयसि उद्वसितदन्तमालामुखवेपितृशरीरं येन परमुपहससि ! । २ किन्तवा सू । ३ अथ ब्राह्मणस्य किमत्र भविष्यति ? इति। ४ साम्प्रतमुत्सवः, तदनन्तरमनुत्सवः, ततो हर्ष-विषादाभ्यामेव भवितव्यम् । न पुनरत्र ब्राह्मणस्य किञ्चित् । ५ नात्र वाङ्मात्रेण किमपि सम्पद्यते। यदि पुनस्तथा तर्हि मम मोदकाः किं न सम्पद्यन्ते ।। ६ वायमें जे। ७ प्रेषिताऽस्मि स्वामिन्या, यथा - हम्जे चतुरिके । बहिर्गन्तुमिमे मोदका बन्धुमतीशोभनवरलाभनिमित्तं भगवत्यै कुलदेवतायै ढौकयित्वा ततोऽतिथिविशेषाय प्रयच्छ । कुत्र पुनरतिथि प्रेक्षिष्ये ? । ८ चतुरिए जे। ९ भगवन् ! प्रणमामि । १० प्रेषिताऽस्मि स्वामिन्या० । ११ यद्येवं तद् मम वयस्यो देवो भविष्यतीति। १२ भवति ! एभिः सुस्निग्धैः सुपरिणाहाभोगै हुजनप्रार्थनीयैस्तव स्तनकलशैरिव दर्शनमुपगतैरपि तथा परितुष्टः, न यथा वयस्यलाभप्रवृत्याऽपि। १३ भवति! पुनरपि रुष्ट्वा एभिर्घनकृष्णबहलपक्ष्मलपक्ष्मपुटेषन्मीलत्तरलतारकनेत्रनिर्गतधवलज्योत्स्नाप्रवाहविच्छर्दगर्मितैः कटाक्षविक्षेपैः प्रलोकयसि!। दृढं दृढं कुतूहलाकुलोऽस्मि। १४ हताश ! यदि न गृणासि तर्हि अन्यत्र गमिष्यामि । १५ अन्यत्रापि गतायास्तव किमस्माकं हृत भविष्यति ? इति। ननु तव गृहे एव तावत् तिष्ठन्तु । पुना राजकुलाद् निष्कामन् ग्रहीध्यामि। १६ गिहिस्सामि जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org