________________
चउप्पन्नमहापुरिसचरिय।
(नेपथ्ये) एवमेवैतत् , कः सन्देहः ।
(उभावाकर्णयतः ।) नटी- अजउत्त ! को उण एसो अज्जउत्तवयणमणुकरेइ ? । सूत्रधारः- (निर्वर्ण्य ) आर्ये ! कञ्चकी स्वकार्यावेदनाकृतहृदय इत एवाभिवर्तते, ततो गच्छावः ।
(परिक्रम्य निष्क्रान्तौ ।)
॥ प्रस्तावना ॥
(ततः प्रविशति चिन्तां नाटयन् कञ्चुकी ।) कञ्चकी - अहो ! जराजीर्णदेहस्योद्यापि मे सेवाभियोगः, न धर्मोद्यमः। अपि चपिपतिषुरद्य श्वो वा जराघुणोत्कीर्णदेहसारोऽपि । धर्म प्रति नोद्यच्छति वृद्धपशुस्तिष्ठति निराशः ॥९॥
बालेऽस्ति यौवनाशा, स्पृहयति यौवनमपीह वृद्धत्वम् । मृत्यूत्सङ्गगतोऽयं वृद्धः किमपेक्ष्य निधर्मः ? ॥ १०॥ ___ खण्डयतु जरा रूपं, नाशं स्मृति-मेधयोश्च विदधातु । यद् गौरवमपि गच्छति तेनाकालेऽप्यहं पलितः ॥११॥ आदिष्टोऽहं राज्ञा राजशेखरेण, यथा- गच्छ भो माधव ! योऽयमस्मदन्तिकं लक्ष्मीधरकुमारः कोपात् समायातः कुलजः प्रश्रयवान् सर्वकलापारगो ललितललितैरङ्गैरनङ्ग इव लोकमभिभवति, तदस्मै समानवयो-रूप-कुलयोग्याय अस्मदुदुहितरं बन्धुमती राज्याध च नियोजय । कथितं च मे वन्धुमतीसख्या चन्द्रलेखया, यथा-परस्पराऽविदितकुला-ऽभिधानयोरेच वच्छयोः सकृदर्शनेनैव परां कोटिमारूढः प्रेमानुबन्ध इति । निवेदितं च मे राजकुलानिच्छि]तः लब्धप्रत्ययेन सिद्धादेशनाना सांवत्सरिकेण, यथा -- गच्छ भो माधव ! कार्यसिद्धये, तत्र सेत्स्यति भवतः सर्व समीहितम् , किन्त्ववसानविरसमिति, अवश्यम्भाविनश्च भावा न विधिनाऽपि प्रतिकूलयितुं शक्या इति भणित्वा गतोऽसौ । तत्र न विद्मः किं भविष्यति ? इति । यदि वा अवश्यम्भावित्वे किं चिन्ताखेदेन ? । यद् भवति तद् भवतु । निवेदितं च मे दैविक्या वाचा, यथा-"विहाय शोकसरणी कार्ये मनो दीयताम्" [पञ्चम् ८] (इति पुनस्तदेव पठति ।) तत् क्व पुनर्मया लक्ष्मीघरकुमारो द्रष्टव्यः? । ( अग्रतो विलोक्य ) कुतश्चिन्निमित्तात् प्रहृष्टबदनकमलो दिशोऽवलोकयन् तदनुचरो बटुरित एवाभिवर्तते । यावत् प्रतिपालयामि।
(ततः प्रविशति हृष्टो विदूषकः ।) विदूषकः-हीही! भो! पेसिओ म्हि जणयसंदेमुत्तेयवियखत्तियवीरिएणं पियवयंसएणं । जहा- गच्छ भो विचित्त ! जाणाहि 'कहिं राया वट्टइ ? ' त्ति। सुयं च मए, जहा- राइणा कुमारस्स दाउमाइ8 रजस्स अद्धं नियसुया य। दिट्ठिया, अण्णहा पिउणो सम्भावणा, अण्णह चिय कुमारपुण्णाणुभावेणं गुण-रूाखित्तहियो जणो अणुचिट्ठइ त्ति। (अग्रतो विलोक्य) एसो हु राइणा पेसिओ कंचुई। ता एयस्स पुरओ लीलायमाणो लीलायमाणो चिहिस्सं । (तथा करोति ।) कचुकी-(उपसृत्य) भो बटो! क्यास्ते त्वदीयो राजा? इति।
(विदूषकः ऊर्चमवलोकयति।) कञ्चुकी-(आत्मगतम् ) कथमयमुन्मत्त इव चेष्टते ?। यदि वा ब्राह्मणवटुः, अपरं मूर्खः, पुनश्च राजसुताभाषित इति महत्यनर्थमालेति। भवतु, एवं भणि(लि)ष्ये। (प्रकाशम् ) भो दुष्टबटो! विरूपोऽपि भूत्वा एवं विकुरुषे ?।
१ अय्यउत्त ! जे, आर्यपुत्र ! कः पुनरेष आर्यपुत्रवचनमनुकरोति ?। २ स्यापि सू। ३ साम्वत्स सू। ४ हीही! भोः। प्रेषितोऽस्मि जनकसन्देशोत्तेजितक्षत्रियवीर्येण प्रियवयस्येन, यथा-गच्छ भो विचित्र !, जानीहि कुत्र राजा वर्तते ? इति । श्रुतं च मया, यथा-राज्ञा कुमारस्य दातुमादिष्ट राज्यस्यार्ध निजसुता च। दिष्टया, अन्यथा पितुः सम्भावना, अन्यथैव कुमारपुण्यानुभावेन गुण-रूपाक्षिप्तहृदयो जनोऽनुतिष्ठतीति। एष खलु राज्ञा प्रेषितः कञ्चकी, तद् एतस्य पुरतो लीलायमानो लीलायमानः स्थास्यामि । ५ च मे जहा जे। ६ रूवखि(क्खि)त सू...jainelibrary.org
Jain Education International