________________
[विबुधानन्दं नाम नाटकम्]
(ततः प्रविशति नान्दी, परिक्रम्य च-) राजीमत्यवधारय प्रियकथामात्मानमालोचय, किं कोऽपीह जगत्यनिन्धचरिते ! पत्युर्वियोगे मृतः? । इत्याकर्ण्य वचोऽवधार्य च ततो मूर्छा विनोदस्तया, चक्रे यस्य कृते स पातु भवतः श्रीनेमिनाथो जिनः ॥ १॥ निःशङ्कः पादपातैः स्फुटति वसुमती पर्वता मुक्तवन्धा, दोलायन्ते समन्ताद् भ्रमदिव गगनं लक्ष्यते दिग्भ्रमेण । उद्भ्रान्ताः सत्समुद्राः क्षुभितजलचराः शक्रनृत्ये प्रवृत्ते, जातं यजन्मकाले जगदिति भवतः पात्वसौ नेमिनाथः ।।२।।
(नान्द्यन्ते) सूत्रधारः-आदिष्टोऽहमद्य साधुजनपर्षदा । यथा-अद्य त्वया कवेः शीलाङ्कस्य विमलमत्यभिधानस्य कृतिः विबुधानन्दं नाम नाटकं एकमङ्काख्यरूपकं नाटयितव्यमिति । यत्सत्यं ममापि विशेषवेदिन्यां पर्षदि प्रयुञ्जानस्य सफलः परिश्रमो भविष्यति, कवेरपि [च । स चेदमुक्तवान्
वस्तूपाश्रयसौन्दर्यादपूर्वगुणमाप्नुयात् । स्वच्छं मौक्तिकतामेति शुक्तिमध्यगतं जलम् ॥ ३ ॥
लगति जनमनसि सकृदपि गदितैषा कृतिरसत्यपि सदा । द१ररटितमपि यथा भवति मुदे दृष्टिसूचनकम् ॥४॥ तद् यावद् गृहं गत्वा गृहिणीं विदितवृत्तान्तां करोमि । ( परिक्रम्य विलोक्य च आकाशे ) इदमस्मद्गृहम् , यावद् गृहिणीमाकारयामि-- गुणवत्युपभोगकरि ! प्रधानभूते ! मदर्थमुत्रुक्ते ! । मत्प्रकृतिसदृशर्मिणि ! कार्यादाथै ! द्रुतमुपैहि ॥ ५ ॥
( प्रविश्य ) नटी-( सास्रम् ) आणवेदु अज्जो, को णिओओ अणुचिट्ट(ट्टी)यदु ? । सूत्रधारः-आर्ये ! सशोकेव लक्ष्यसे !, तत् कथयतु भवती शोककारणम् । नटी-अजउत्त ! कि ममं मंदभायाए सोयकारणेणं पुच्छिएणं ? । ता आणवेदु अंजो, किमणुचिट्ठीयदु ? ।
सूत्रधारः-आर्ये ! आदिष्टोऽहं साधुजनेन । यथा-अद्य त्वया विबुधानन्दं नाम नाटकं नाटयितव्यमिति । तत् सजा भवतु भवती।
नटी-( सास्रम् ) नैच्च तुमं जो निच्चिन्तो । मज्झ पुण पुत्तस्स विवाहसमयाणंतरमेव णेमित्तिएणं कुटुंबभंगो समाइ8ो । तओ एयाए चिंताए भोयणं पि ण रोयइ, किं पुण गैच्चियव्यं । _सूत्रधारः-आर्ये ! कुटुम्बभङ्गः श्रुत इत्युद्विग्नाऽसि !, अलमुद्वेगेन । यतो नह्यपूर्वमसुलभमेतत् संसारान्तर्गतानाम् । अपि च
किं दृष्टोऽसौ क्वचिदपि ? शङ्कित इति वा ? श्रुतोऽपि वा लोके ? ।
योऽनार्यया भविष्यति न खण्डितः कर्मणां गत्या ? ॥६॥ अन्यच्चार्ये !
घटयति विघटयति पुनः कुटुम्बकं स्नेहमर्थमनवरतम् । भवितव्यतैव लोके न खेदनीयं मनस्तेन ॥७॥ भङ्गं पुत्र-कलत्र-बन्धु-सुहृदामर्थस्य रूपस्य बा, संसारेऽपसदे विधानमतुलं पश्यन्नपीहेत ततः । स्वस्मिन् कर्मणि मोहितो हि सततं मूर्खस्तथा पण्डितस्तस्मात् सुभ्र ! विहाय शोकसरणी कार्ये मनो दीयताम् ॥८॥
१ आज्ञापयतु आर्यः, को नियोगोऽनुष्ठीयताम् ? । २ आर्यपुत्र ! किं मम मन्दभागायाः शोककारणेन पृष्टेन ? । तद् आज्ञापयतु आर्यः, किमनुष्ठीयताम् ।। ३ अध्यो जे । ४ नृत्य त्वं यो निश्चिन्तः । मह्यं पुनः पुत्रस्य विवाहसमयानन्तरमेव नैमित्तिकेन कुटुम्बभङ्गः समादिष्टः । तत एतया चिन्तया भोजनमपि न रोचते, कि पुनर्नर्तितव्यम् ? । ५ णच्चियब्वय जे। ६ न्नपीहा ततः जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org