________________
अनङ्गप्रविष्टोत्कालिकश्रुतज्ञानम् ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । दस्वरूपं महाकर्मेन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव. संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तभिर्गमनोपाये वीतरागमणीतधर्मचिन्तामणौ यतो विचित्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यभिव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवाऽऽस्ते सत्त्वः स खल्ल प्रमाद इति । तद्भेदाः मद्यादयः, तत्कारणत्वात् । उक्तं च
मजं विसय कसाया णिहा विगहा य पंचमी भणिया।
एए पंच पमाया जीवं पाउंति संसारे ॥१॥ [ एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलविपाको दारुणः । उक्तं चश्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतेन तु प्रमादः क्षमः कर्तुम् ॥१॥ अस्यामेव हि जातौ नरमुपहन्याद् विषं हुताशो वा । आसेवितः प्रमादो हन्याजन्मान्तरशतानि ॥२॥ यन्न प्रयान्ति पुरुषाः स्वर्ग, यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥३॥ 10 संसारबन्धनगतो जाति-जरा-व्याधि-मरणदुःखार्तः । यनोद्विजते सत्त्वः स ह्यपराधः प्रमादस्य ॥४॥ आज्ञाप्यते यदवशः तुल्योदर-पाणि-पाद-वदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ॥५॥ इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाश्चपलाः। यत् कृत्यं तदकृत्वा सततमकार्येष्वभिपतन्ति ॥६॥ . तेषामभिपतितानामुभ्रान्तानां प्रमत्तहृदयानाम् । वर्द्धन्त एव दोषाः वनतरव इवाम्बुसेकेन ॥७॥ दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीताऽपि भ्राम्यते वायुना नौः । लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाचित्रं व्यावृत्तो ब्रह्मदत्तो नरेशः ॥८॥ [
] इत्यादि। एवं प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति १० । “नंदी"त्यादि सुगमम् । सूर्यप्रज्ञप्तिः सूर्यचरितप्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः १६ । पौरुषीमण्डलं पुरुषः-शङ्कः शरीरं वा, तस्माभिष्पना पौरुषी। इयमत्र भावना-यदा सर्वस्य वस्तुनः स्वप्रमाणा छायोपजायते तदा पौरुषीति. एतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ चैकं दिनं भवति, तत ऊर्ध्वमङ्गुलस्याष्टावेकषष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसन्तीति, 20 एवं यत्र पौरुषी मण्डले मण्डलेऽन्याऽन्या प्रतिपाद्यते तदध्ययनं पौरुषीमण्डलम् १७। मण्डलप्रवेशः यत्र हि चन्द्र-सूर्ययोर्दक्षिणोत्तरेषु मण्डलेषु मण्डलान्मण्डलप्रवेशो व्यावय॑ते तदध्ययनं मण्डलप्रवेश इति १८ । विद्याचरणविनिश्चयः विद्येति-ज्ञानम्, तच्च दर्शनसहचरितम्, अन्यथा ज्ञानाभावात्, चरणं-चारित्रम्, एतेषां फलविनिश्चयप्रतिपादको ग्रन्थः विद्याचरणविनिश्चय इति १९ । 'गणिविद्या' गुणगणोऽस्यास्तीति गणी, स चाऽऽचार्यः, तस्य विद्या-ज्ञानं गणिविद्या, तत्राविशेषेऽप्ययं विशेषः
जोतिस-णिमित्तणाणं गणिणो पव्वावणादिकज्जेसु । उवयुज्जइ तिहि-करणादिजाणणहऽनहा दोसो ॥१॥ [
] २०। ध्यानविभक्तिः ध्यानानि-आर्तध्यानादीनि, तेषां विभजनं यस्यां ग्रन्थपद्धतौसा ध्यानविभक्तिः २१॥ मस्णानि-प्राणत्यागलक्षणानि अनुसमयादीनि वर्तन्ते, यथोक्तम्-"अणुसमयं संतरं चे"त्यादि, एतेषां विभजनं यस्यां सा मरणविभक्तिः २२ । आत्मनः-जीवस्याऽऽलोचना-प्रायश्चित्तमतिपत्त्यादिप्रकारेण विशुद्धिः कर्मविगमलक्षणा 30
15
25.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org