SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [ सू. ८०-८३ . ८०. से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं, तं जहा-आवस्सगं च आवस्सगवइरित्तं च । ..८०. से किं तमित्यादि । अथ किं तदङ्गबाह्यम् ?। श्रुतपुरुषाद् व्यतिरिक्तं अङ्गबाह्यं द्विविधं प्रज्ञप्तम् , तद्यथा-आवश्यकं च आवश्यकव्यतिरिक्तं च ॥ 5. ८१. से किं तं आवस्सगं? आवस्सगं छव्विहं पण्णत्तं, तं जहा-सामायियं १ चउवीसत्थओ २ वंदणयं ३ पडिकमणं ४ काउस्सग्गो ५ पञ्चक्खाणं ६ । से तं आवस्सयं । ८१. से किं तमित्यादि । अथ किं तदावश्यकम् ? अवश्यक्रियानुष्ठानादावश्यकम् , गुणानां वा आ-अभिविधिना वश्यमात्मानं करोतीत्यावश्यकं षड्विधं प्रज्ञप्तम्, तद्यथा-सामायिकमित्यादि । सावज्जजोगविरती १ उक्वित्तण २ गुणवयो य पडिवत्ती ३। 10 खलियस्स जिंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१॥ [अनुयोग. पत्रं ४३-१] अधिकारगाथा । एतदनुसारेण आवश्यकपिण्डार्थों वक्तव्यः । “से त"मित्यादि तदेतदावश्यकम् ।। ८२. से कि तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णत्तं, तं जहा-कालियं च उकालियं च। ८२. से किं तमित्यादि । अथ किं तदावश्यकव्यतिरिक्तम् ? । आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तम् , 15 तद्यथा-कालिकं चोत्कालिकं च । यदिह दिवस-निशिप्रथम-पश्चिमपौरुषीद्वय एव पठ्यते तत् कालेन निर्वृत्तं कालिकम् । यत् पुनः कालवेलावर्ज पठ्यते तदुत्कालिकम् ॥ तत्राल्पतरवक्तव्यत्वादुत्कालिकमधिकृत्य प्रश्नसूत्रमाह ८३. से कि तं उक्कालियं ? उक्कालियं अणेगविहं पण्णत्तं, तं जहा-दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुतं ३ महाकप्पसुतं ४ ओवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पण्णवणा ८ महापण्णवणा ९ पमायप्पमादं १० नंदी ११ अणुओगदाराई १२ देविदत्थओ 20 १३ तंदुलवेयालियं १४ चंदावेज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायसुतं २४ संलेहणासुतं २५ विहारकप्पो २६ चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ । से तं उकालियं ।। ८३. से किं तमित्यादि । अथ किं तदुत्कालिकम् ? । उत्कालिकमनेकविधं प्रज्ञप्तम् , तद्यथा-दशवैकालिक 25 प्रतीतम् १ । कल्पा-ऽकल्पप्रतिपादकं कल्पाकल्पम् २ । तथा कल्पनं कल्पः-स्थविरकल्पादिः, तत्पतिपादकं श्रुतं . कल्पश्रुतम् , तत् पुनर्द्विभेदम्-चुल्लकप्पसुयं महाकप्पसुयं, एकमल्पग्रन्थमल्पार्थं च, द्वितीयं महाग्रन्थं महार्थ च शेषभेदाःपायो निगदसिद्धास्तथापि लेशतोऽप्रसिद्धतरान् व्याख्यास्यामः-जीवादीनां प्रज्ञापनं प्रज्ञापना ८॥ बृहत्तरा महाप्रज्ञापना ९। प्रमादा-ऽप्रमादस्वरूप-भेद-फल-विपाक-प्रतिपादकमध्ययनं प्रमादाप्रमादम् । प्रमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy