SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 15 जीवानामक्षरानन्तभागोद्घाटत्वं गमिकादिश्रतज्ञानं च] श्रीदेववाचकविरचितं नन्दिसूत्रम् । ६९ पर्यायाः परपर्याया इति, ते पुनः स्वपर्यायेभ्योऽनन्तगुणाः। आह-स्वपर्यायाणां तावत् पर्यायता युक्ता, घटादिपर्यायास्तु विभिन्नवस्त्वाश्रितत्वात् कथं तस्य' इति व्यपदिश्यन्ते ?, उच्यते, स्वपर्यायविशेषणोपयोगात्, इह ये यस्य स्वपर्यायविशेषणतयोपयुज्यन्ते ते तस्य पर्यायतया व्यपदिश्यन्ते, यथा घटस्य रूपादयः, उपयुज्यन्ते चाकारस्वपर्यायाणां विशेषणतया घटादिपर्यायाः, तानन्तरेण स्वपर्यायव्यपदेशाभावात्, तथा वस्तुस्थित्याऽपि च घटादिपर्याया अभावरूपेणाकारस्य व्यवस्थितत्वाद घटादिपर्यायाणां अकारपर्यायतायामविरोध इति । इयमत्र ! भावना-घटादिपर्यायाणामनन्तत्वात तेभ्यश्चाकारस्य स्वभावभेदेन व्यावृत्तत्वात, स्वभावभेदव्यावृत्त्यनभ्युपगमे च घटादिपर्यायाणामेकत्वप्रसङ्गात्, अतः स्वभावभेदनिबन्धनत्वादकारपर्यायता तेषामिति, तस्मात् स्व-परपर्यायापेक्षया खल्वकारस्य सर्वद्रव्यपर्यायराशितुल्यधर्मताऽविरोध इति । न चेदमुत्सूत्रम्, यत आगमेऽप्युक्तम्-“जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगं जाणति" [आचाराङ्गे श्रु० १ अ० ३ उ० ४ सू० १] त्ति । अस्यायमर्थः-य एकं वस्तूपलभते सर्वपर्यायैः स सर्वमुपलभते, कश्चैकं सर्वपर्यायैरुपलभते ? य एव सर्व सर्वथोपलभत 10 इति, अतः सर्वमजानानो नाकारं सर्वथोपलभत इति, ततथास्मात् सूत्रात् सर्वमेव वस्तु सर्वद्रव्यपर्यायराशितुल्यधर्मकम्, इह त्वक्षराधिकारादक्षरमुक्तमिति, इतश्चैतदकाराद्येव प्रतिपत्तव्यम्, अस्मिन्नेवाधिकारे 'अक्षरस्यानन्तभागो नित्योद्घाटितः' इत्युपन्यस्तत्वात्, केवलस्य चाविभागसम्पूर्णत्वेन निकृष्टानन्तभागासम्भवात्, अवधेरप्यसङ्ख्येयप्रकृतिभेदभिन्नत्वात्, मनःपर्यायज्ञानस्याप्योघत ऋजु-विपुलभेदभिन्नत्वात्, पारिशेष्यादकारादिश्रुताक्षरस्य निबन्धनज्ञानस्यैवासावित्यलं प्रसङ्गेन । " से तं" इत्यादि निगमनद्वयमपि निगदसिद्धम् ।। __७८. से किं तं गमियं ? गमियं दिद्विवाओ। अगमियं कालितं सुयं । से तं गमियं । से तं अगमियं ११ । १२ । ७८. से किं तमित्यादि । अथ किं तद् गमिकम् ? । इहाऽऽदि-मध्या-ऽवसानेषु किञ्चिद् विशेषतः पुनस्तसूत्रोच्चारणलक्षणो गमः, यथाऽऽदिविशेषे तावत् "इह छज्जीवणिके"त्यादि, [ दशवै० अ. ४ सू. १-३ ]गमा अस्य विद्यन्त इति "अत इनि ठनौ" [ पा. प. २. १२५ ] इति गमिकम् । इदं च प्रायोवृत्त्या दृष्टिवादे, तस्यैव गमबहुलत्वात् । 20 अगमिकं तु प्रायो गाथाद्यसमानग्रन्थत्वात् कालिकश्रुतमाचारादि । “से त"मित्यादि निगमनद्वयं कण्ठयम् । ७९, अहवा तं समासओ दुविहं पण्णतं, तं जहा-अंगपविढं अंगबाहिरं च । ७९. तं समासतो दुविहं पन्नत्तं 'तद्' गमिका-ऽगमिकं अथवा 'तद्' ओघश्रुतमर्हदुपदेशानुसारि 'समासतः" सङ्क्षपेण द्विविधं प्रज्ञप्तम्, तद्यथा-अङ्गप्रविष्टं अङ्गबाह्यं च । अत्राह-पूर्वमेव चतुर्दशभेदोदेशाधिकारे अङ्गप्रविष्टं च अङ्गबाह्यं चेत्युपन्यस्तम्, किमर्थ पुनः 'तत् समासतः' इत्याद्युपन्यासेन तदेवोद्दिश्यते ? इति, अत्रोच्यते, 25 सर्वभेदानामेवाङ्गा-ऽनङ्गमविष्टभेदद्वयान्तर्भावेनाहत्मणीतत्वेन च प्राधान्यख्यापनार्थमिति । तत्र पाददुगं २ जंघो २ रू २ गातयगं च २ दो य बाहूओ २। गीवा १ सिरं च १ पुरिसो बारसअंगो सुयविसिट्ठो ॥१॥[ श्रुतपुरुषस्याङ्गेषु प्रविष्टम्, अङ्गभावव्यवस्थितमित्यर्थः । अथवा-- गणधरकयमंगगयं जं कत थेरेहिं बाहिरं तं तु। नियतं वंगपविटं अणिययसुय बाहिरं भणियं ॥१॥ [ तत्राल्पतरवक्तव्यत्वादङ्गबाह्यमधिकृत्य प्रश्नसूत्रमाह 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy