________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
. [ सू. ७७-७९ तस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशाः, निर्विभागा भागा इत्यर्थः, तेषामग्रं-परिमाणं सर्वाकाशमदेशाग्रम् , सर्वाकाशप्रदेशैः, किम् ? 'अनन्तगुणितं' अनन्तशो गुणितं अनन्तगुणितम्, एकैकस्मिनाकाशपदेशे अनन्तागुरुलघुपर्यायभावात् , 'पर्यायाग्राक्षरं' पर्यायपरिमाणाक्षरं निष्पद्यते, सर्वद्रव्य-पर्यायपरिमाणमिति भावार्थः। स्तोकत्वाचेह धर्मास्तिकायादयो नोक्ताः, अर्थतस्तु गृहीता एव ॥ 5 ७७. सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो णिचुग्घाडियओ, जति पुण सो वि आवरिज्जा तेण जीवो अजीवत्तं पावेज्जा ।
सुट्ठ वि मेहसमुदए होति पभा चंद-सूराणं । से तं सादीयं सपज्जवसियं । से तं अणादीतं अपज्जवसितं ७।८।९।१०। ___७७. इह च ज्ञानमक्षरं गृह्यते, तथा तज्ज्ञेयम् , तथा अकारादि च, सर्वथाऽप्यविरोध इति । अस्य च 10 सर्वजीवानामपि चाक्षरस्यानन्तभागः 'नित्योद्घाटितः' सदाऽमात इत्यर्थः। स पुनरनन्तभागोऽप्यनेकविधः, तत्र
सर्वजघन्यश्चैतन्यमात्रम्, तत् पुनर्न कदाचिदुत्कृष्टावरणस्याप्यात्रियते, जीवस्वाभाव्यात् । आह च ग्रन्थकार:-"जइ पुण" इत्यादि । यदि पुनः सोऽपि आवियेत, ततः किम् ?, 'तेन जीवः अजीवतां प्राप्नुयात्' 'तेन' आवृतेन 'जीव' चैतन्यलक्षणः स्वलक्षणपरित्यागादजीवतां प्राप्नुयात् , न चैतद् दृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्कारात् । अत्रैव दृष्टान्तमाह-"मुठ्ठ वी"त्यादि मुष्ठ्वपि मेघसमुदये चन्द्र-सूर्यप्रभाजालतिरस्कारिणि सति भवति प्रभा चन्द्र-सूर्ययोः, 15:सर्वस्य सर्वथा स्वभावातिरस्कारादिति ।
___ अत्राह-"सव्वागासपएसग्गं सव्वागासपदेसेहिं अणंतगुणियं पज्जवग्गक्रवरं निप्फज्जति" इत्यत्राविशेषितमेवाक्षरमुक्तम् , अविशेषाभिधानाच्चेदं केवलमिति गम्यते, इह तु श्रुताधिकारागकारादि प्रकृतं यतः, तत् कथं केवलपर्यायपरिमाणतुल्यं भवेत् ?, उच्यते, नन्वत्राप्यपर्यवसितश्रुताधिकाराद्येच गम्यते। अथ मतिः-"सबजीवाणं पि य
णं अक्खरस्स अणंतभागो णिचुग्याडिओ" त्ति सर्वजीवग्रहणान्न तत् श्रुतम् , यतः समस्तद्वादशाङ्गविदां तत् समस्त20 मिति, यद्येवं केवलस्यापि न सर्वजीवानामेवानन्तभागोऽवतिष्ठते, सर्वज्ञसद्भावात् , अतो न तत् केवलाक्षरमपि, कस्यासावनन्तभागोऽस्तु ?, तथा अविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणाद् अपिशब्दाद्वा केवलिनो विहायान्येषां अनन्तभागो गम्यते, अत एव किं न श्रुतात्मकमक्षरमङ्गीकृत्य समस्तद्वादशाङ्गविदोऽपि विहायान्येषामनन्तभागो गम्यते ? तस्मात् स्व-परपर्यायभेदादुभयमप्यविरुद्धमिति, तथाऽप्यत्रापर्यवसितश्रुताधिकारादकाराधेव
न्यायानुपाति। 25 तत् पुनरनन्तपर्यायम्-इह अ अ अ इत्यकार उदात्तोऽनुदात्तः स्वरितः, स सानुनासिको निरनुनासिकश्च,
एवं दीर्घः प्लुतः, एवं तावदष्टादशमभेदं अवर्ण ब्रुवते, एवं यावतः केवल एव अकारो लभते सानुनासिकादीन तथाऽन्यवर्णसहितो वा तेऽप्यस्य स्वपर्यायाः, ते चानन्ताः । कथम् ?, अभिलाप्यवाह्यनिमित्तभेदात्, तस्य च परमाणु-द्वयणुकादिभेदेनानन्तत्वात्, ध्वनेश्च तथातथाभिधायकत्वपरिणामे सति तत्तदर्थमतिपादकत्वादिति, साङ्केतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके नयाधिकारे विचारयिष्यामः, ततश्चैते स्वपर्यायाः, शेषास्तु सर्व एव घटादि
१ अत्रार्थे पूज्यप्रवरस्वविहिताऽऽवश्यकबृहद्वृत्तेर्दुष्षमाकालदुष्प्रभावविनष्टत्वाद् यत्किश्चिश्चित्ततुष्टयर्थ सम्प्रत्युपलभ्यमानाऽऽगमोद्धारकमुद्रापिता शिष्यहिताख्याऽऽवश्यकलघुवृत्तिरवलोकनीया [आव• नि. गा. ७५४-६. पत्र २८२-८५] । तथाऽत्रार्थे विशेषावश्यकमहाभाष्यसत्काः २१८१ तः २२६३ गाथास्तट्टीकादिकं चापि विलोकनीयमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org