________________
5
कालचक्र सादि-सपर्यवसितादिश्रुतज्ञानं च श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
उवभोग-परीभोगा पवरोसहिमाइएहिं विण्णेया । जिण-चक्कि-वासुदेवा सव्वे य इमीए वोलीणा ४ ॥१९॥ इगवीस सहस्साई वासाणं दूसमा, इमीए य । जीवियमाणुवभोगादिया य दीसंति हायंता ५॥२०॥ एत्तो उ किट्टितरा जीतपमाणादिएहिं निहिट्ठा । अतिदूसम त्ति घोरा वाससहस्साई इगवीसं ६ ॥२१॥ ओसप्पिणीए एसो कालविभागो जिणेहिं निद्दिट्ठो । एसो च्चिय पडिलोमं विनेयुस्सप्पिणीए वि ॥२२॥ एतं तु कालचकं सिस्सजणाणुग्गहठ्ठया भणियं । संखेवेण महत्थो विसेसमुत्ताओ णायव्यो ॥२३॥
"णोउस्स(ओस)प्पिणी"मित्यादि। नोअवसर्पिणीनोउत्सर्पिणीं च प्रतीत्य अनाद्यपर्यवसितम् , महाविदेहेष्वेव कालस्यावस्थितत्वादिति भावः । भावतः "ण"मिति पूर्ववत् 'ये' इत्यनिर्दिष्टनिर्देशे ये केचन 'यदा' पूर्वाह्नादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ताः 'भावाः' पदार्थाः “आघविज्जंति" ति प्राकृतशैल्या आख्यायन्ते, सामान्य-विशेषाभ्यां कथ्यन्त इत्यर्थः; 'प्रज्ञाप्यन्ते' नामादिभेदाभिधानेन'प्ररूप्यन्ते' नामादिस्वरूपकथनेन, यथा-"पर्यायानभिधेय"मित्यादिः 'दयन्ते' उपमानमात्रतः, यथा गौस्तथा गवय इत्यादिः 'निदर्श्यन्ते' हेतु-दृष्टान्तोपन्यासेन; 'उपदयन्ते' उपनय- 10 निगमनाभ्यामिति सकलनयाभिप्रायतो वा 'तान्' भावान् 'तदा' तत्कालापेक्षया प्रतीत्य सादि सपर्यवसितम् । एतदुक्तं भवति-प्रज्ञापकोपयोग-स्वर-प्रयत्ना-ऽऽसनविशेषतः प्रतिक्षणमन्यथा चान्यथा चावस्थितेः सादि सपर्यवसितम् । तथा चोक्तम्
उवयोग-सर-पयत्ता आसणभेदादिया य पतिसमयं । . भिन्ना पनवगस्सा सादि सपज्जन्तगं तम्हा ॥१॥ [विशेषा. गा. ५४७]
15 अथवा प्रज्ञापनीयभावापेक्षया गति-स्थति-द्वयणुकायेकप्रदेशाद्यवगाहैकादिसमयस्थित्येकवर्णादिप्रतिपादनात् सादि सपर्यवसितम् , क्षायोपशमिकभावापेक्षया पुनरनाद्यपर्यवसितम् , प्रवाहरूपेण तस्यानाद्यपर्यवसितत्वात् ॥
___ अथवाऽत्र चतुर्भङ्गिका-सादि सपर्यवसितं १ साद्यपर्यवसितं २ अनादि सपर्यवसितं ३ अनाद्यपर्यवसितम् ४। . तत्र प्रथमभङ्गकप्रदर्शनायाऽऽह
७५. अहवा भवसिद्धीयस्स सुयं साईयं सपज्जवसियं, अभवसिद्धीयस्स सुयं अणा- 20 दीयं अपज्जवसियं ।
७५. "भवसिद्धीयस्स” इत्यादि । भवसिद्धिकः-भव्यस्तस्य 'श्रुतं' सम्यक्छूतं सादि सपर्यवसितम् , उपयोगाद्यपेक्षया भावितमेव । द्वितीयभङ्गकस्तु शून्यः, प्ररूपणामात्रतो वा अभव्यस्य वर्तमानकालापेक्षया अनागताद्धामधिकृत्य मिथ्याश्रुतमिति । तृतीयभङ्गस्तु सम्यक्त्वावाप्तौ भव्यस्य मिथ्याश्रुतम् । चतुर्थ भङ्गं पुनरुपदर्शयन्नाह"अभव" इत्यादि, अभवसिद्धिकः-अभव्यस्तस्य 'श्रुतं' मिथ्याश्रुतं अनाद्यपर्यवसितम् , तस्य सदैव संसारवर्तित्वात् । 25 इह च श्रुतस्य प्रक्रान्तत्वात् तृतीय-चतुर्थभङ्गकद्वयेऽनादिश्रुतभाव उक्तः, अन्यथा मतेरप्येवमेव द्रष्टव्यम् , मति-श्रुतयोरन्योऽन्यानुगतत्वात् । अत्राह-सोऽनादिज्ञानभावः किं जघन्यः ? उत विमध्यमः ? आहोश्विदुत्कृष्टः ? इति, अत्रोच्यते, जघन्यो विमध्यमो वा, न तूत्कृष्टः । कथम् ? यतस्तस्येदं प्रमाणम्____७६. सव्वागासपदेसग्गं सव्वागासपदेसेहि अणंतगुणियं पज्जवग्गक्खरं णिप्फज्जइ ।
७६. “सव्वागासपदेसग्ग"मित्यादि । सर्व च तदाकाशं च सर्वाकाशम् , लोका-ऽलोकाकाशमित्यर्थः, 30 १ "यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥१॥” इति सम्पूर्णः श्लोकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org