________________
मिथ्याश्रुतं सादि-सपर्यवसितादिश्रुतज्ञानं च ] . श्रीदेववाचकविरचितं नन्दिसूत्रम् । कल्पितं' इहावग्रहेहे बुद्धिः, अपाय-धारणे मतिः, स्वच्छन्देन-स्वाभिप्रायेण स्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धि-मतिभ्यां विकल्पितं स्वच्छन्दबुद्धि-मतिविकल्पितम्, स्त्रबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः। तद्यथा-'भारत' मित्यादि सूत्रसिद्धं यावत् 'चत्वारश्च वेदास्साङ्गोपाङ्गाः । एतानि स्वरूपतोऽन्यथावस्त्वभिधानान्मिथ्याश्रुतमेव । स्वामिसम्बन्धचिन्तायां तु भाज्यानि । तथा चाह
[२] मिथ्यादृष्टेमिथ्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्मिथ्याश्रुतम् । एतान्येव सम्यग्दृष्टेः 5 सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् सम्यक्छूतम् ।
[३] अथवा मिच्छद्दिहिस्स वि सम्यक्श्रुतम् इत्यादि, अथवा मिथ्यादृष्टेरप्येतानि सम्यक्श्रुतम् , कस्मात् ?, सम्यक्त्वहेतुत्वात् । तथा चाऽऽह-"जम्हा ते मिच्छट्ठिीया" इत्यादि, यस्मात् ते मिथ्यादृष्टयः "तेहि चेव समयेहिं चोदिता समाण" त्ति तैरेव 'समयैः' सिद्धान्तैः पूर्वा-ऽपरविरोधद्वारेण-'यद्यतीन्द्रियार्थदर्शनं स्यात् कथं वेदार्थप्रतिपत्तिः ?' इत्यादिना चोदिताः सन्तः केचन विवेकिनः सत्यक्यादय इव, किम् ?, “सपक्खदिट्ठीओ 10 वति" स्वपक्षदृष्टीस्त्यजन्तीत्यर्थः । “से त"मित्यादि, तदेतत् मिथ्याश्रुतम् ॥
७३. से किं तं सादीयं सपज्जवसियं ? अणादीयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं विउच्छित्तिणयट्ठयाए सादीयं सपज्जवसियं, अविउच्छित्तिणयट्ठयाए अणादीयं अपज्जवसियं ।
७३. से किं तमित्यादि । सादि सपर्यवसितं अनाद्यपर्यवसितं चाधिकारवशाद् युगपदुच्यते । अथ किं 15 तत् सादि ?, सह आदिना वर्तत इति सादि । इत्येतद् द्वादशाङ्गं गणिपिटकं व्यवच्छित्तिप्रतिपादनपरो नयः व्यवछित्तिनयः, पर्यायास्तिक इत्यर्थः, तस्यार्थों व्यवच्छित्तिनयार्थः, तद्भावो व्यवच्छित्तिनयार्थता तया व्यवच्छित्तिनयार्थभावेन, पर्यायापेक्षयेत्यर्थः, किम् ? सादि सपर्यवसितम् , पर्यवसानं पर्यवसितम् , भावे निष्ठाप्रत्ययः, सह पर्यवसानेन सपर्यवसितम् , नारकादिभवापेक्षया एव जीव इति । तथा अव्यवच्छित्तिप्रतिपादनपरो नयः अव्यवच्छित्तिनयः, द्रव्यास्तिकनय इत्यर्थः, तस्यार्थों अव्यवच्छित्तिनयार्थः, तद्भावः अव्यवच्छित्तिनयार्थता तया अव्यवच्छित्ति- 20 नयार्थभावेन, द्रव्यापेक्षयेत्यर्थः, किम् ? अनादि अपर्यवसितम् , त्रिकालावस्थायित्वात् , जीववत् ॥
अधिकृतमेवार्थ द्रव्यादिचतुष्टयमधिकृत्य प्रतिपादयन्नाह
७४. तं समासओ चउव्विहं पण्णत्तं, तं जहा-दव्वओ खेतओ कालओ भावओ। तत्थ दवओणं सम्मसुयं एगं पुरिसं पडुच्च सादीयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणादीयं अपज्जवसिय १ । खेत्तओ णं पंच भरहाई पंच एखयाई पडुच्च सादीयं सपज्जवसियं, पंच 25 महाविदेहाई पडुच्च अणादीयं अपज्जवसियं २ । कालओ णं ओसप्पिणिं उस्सप्पिणिं च पडुच्च सादीयं सपज्जवसियं, णोओसप्पिणिं णोउस्सप्पिणिं च पडुच्च अणादीयं अपज्जवसियं ३। भावओ णं जे जया जिणपण्णत्ता भावा आघविज्जंति पण्णविजंति परूविज्जंति दंसिज्जति णिदंसिज्जंति उवदंसिज्जंति ते तहा पडुच्च सादीयं सपज्जवसियं, खाओवसमियं टी०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org