________________
६४
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ७२-७३
तत् ? ‘द्वादशाङ्गं' श्रुतपरमपुरुषोत्तमस्याङ्गानीवाङ्गानि द्वादश अङ्गानि - आचारादीनि यस्मिंस्तद् द्वादशाङ्गम् । गुणगणोऽस्यास्तीति गणी- आचार्यस्तस्य पिटकं - सर्वस्वं गणिपिटकम् | अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम्आयारम्मि अहीए जं गातो होइ समणधम्मो उ । तम्हा आयारधरो भम्नति पढमं गणिद्वाणं ॥ १ ॥ [ आचाराङ्गनिर्युक्ति गा. १० ]
5 परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकम्, तद्यथा - आचार इत्यादि पाठसिद्धं यावद् दृष्टिवादः। अनङ्गप्रविष्टमावश्यकादि, ततोऽर्हत्प्रणीतत्वाद् वस्तुत उक्तत्वादनुक्तमपि गृह्यते । इदं सर्वमेव द्रव्यास्तिकनयमतेन तदभिधेयपञ्चास्तिकाय भाववन्नित्यं सत् स्वाम्यसम्बन्धचिन्तायां सूत्रार्थोभयरूपं सम्यक्छ्रुतमेव भवति । स्वामिसम्बन्धचिन्तायां तु भाज्यम्, स्वामिपरिणामविशेषात्, कदाचित् सम्यक्छूतं कदाचिद् विपर्ययः । तत्र सम्यग्दृष्टेः प्रशमादिसम्यक्परिणामोपेतत्वात् स्वरूपेण प्रतिभासनात् सम्यक्छ्रुतम्, पित्तोदयानभिभूतस्य शर्क - 10 रादिरिवेति, मिथ्यादृष्टेः पुनरप्रशमादिमिथ्यापरिणामोपेतत्वाद् वस्तुनः स्वरूपेणाप्रतिभासनान्मिथ्याश्रुतम्, पित्तोदयाभिभूतस्याशर्करादिवदिति, देशतो दृष्टान्तः, अशर्करादित्वं च तं प्रति तत्कार्याकरणात्, तथाऽप्यभ्युपगमे चातिप्रसङ्गादित्यलं प्रसङ्गेन । श्रुतप्रमाणत एव सम्यक्परिणामनियमनायाह—
[२] इच्चेदमित्यादि । इत्येतद् द्वादशाङ्गं गणिपिटकं चतुर्दशपूर्विणः सम्यक्छ्रतमेव तथा अभिन्नदशपूर्विणोऽपि समयक्छ्रुतमेव । “तेण परं भिन्नेसु भयण” त्ति पचानुपूर्व्या ततः परं भिन्ने दशसु 'भजना' कदाचित् 15 सम्यक्छ्रुतं कदाचिन्मिथ्याश्रुतम्, परिणामविशेषात् । एतदुक्तं भवति - आसन्नभव्योऽपि मिध्यादृष्टिः सम्पूर्णदशपूर्वरत्ननिधानं न प्राप्नोति, मिथ्यात्त्रपरिणामकलङ्कितत्वाद् दारिद्र्यनिबन्धनपापकलङ्काङ्कितपुरुषवच्चिन्तामणिमिति । “से त" मित्यादि तदेतत् सम्यक्छ्रुतम् ॥
७२. [१] से किं तं मिच्छसुतं ? मिच्छसुतं जं इमं अण्णाणिएहि मिच्छद्दिट्ठीहिं सच्छंदबुद्धि-मतिवियप्पियं, तं जहा- भारहं रामायणं हंभीमासुरक्खं कोडलयं सगभद्दियाओ 20 खोडमुहं कप्पासियं नामसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसितं कविलं लोगायत सट्ठितंतं माढरं पुराणं वागरणं णाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा । [२] एयाई मिच्छद्दिट्ठिस्स मिच्छत्तपरिग्गहियाई मिच्छतं, एयाणि चेव सम्मद्दिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसुयं ।
[३] अहवा मिच्छद्दिट्ठिस्स वि सम्मसुर्य, कम्हा ? सम्मत्त हे उत्तणओ, जम्हा ते 25 मिच्छद्दिट्ठिया तेहिं चेव समए हैं चोइया समाणा केइ सपक्खदिट्ठीओ वर्मेति । से तं मिच्छसुयं ६ |
७२. से किं तमित्यादि । अथ किं तन्मिथ्याश्रुतम् ? मिथ्याश्रुतं यदिदमज्ञानिकैः । तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते, अत आह- मिध्यादृष्टिभिः । किम् ? 'स्वच्छन्दबुद्धि-मतिवि
Jain Education International
For Private Personal Use Only
www.jainelibrary.org